2023-02-20 14:43:08 by ambuda-bot
This page has not been fully proofread.
२१४
श्रीविवेकचूडामणिः सव्याख्यः
निश्चित्य, निगमगदितकीर्ति निगमैः वेदैः गदिता कीर्तिः सर्वज्ञत्व- सर्व-
शक्तत्व - सर्वप्राणिप्राणयितृत्व सर्वप्रशास्तृत्व विशिष्टसगुणाधिष्ठानत्व-
सच्चिदानन्दघनत्व वाङ्मनसा गोचरत्व-निराधारत्व - निर्गुणत्व निष्कलत्व-
निर्विकल्पत्व-निरंजनत्व - सूक्ष्मतमत्व-नित्यशुद्ध-मुक्तबुद्ध-सत्यानन्द-स्वभाव-
त्वादिरूपा यस्य तं, नित्यमानन्दमूर्ति एतेन आनन्दमयकोशनिरास:
तस्य नित्यत्वाभावात् परमात्मानं स्वयमिति स्वस्वरूपमिति, परिचीय
निश्चित्य अनुभूय ब्रह्मरूपेण तिष्ठ कोशानां पंचानां अनात्मत्वेन
निषिद्धत्वात् ब्रह्मैवात्मेत्यनंगीकारे नैरात्म्यवादप्रसंगात् अत एव श्रुतिः
'असन्नेव स भवति" इत्यादिः ॥ ३९६ ॥
6"
-
((
शवाकारं यावद्भजति मनुजस्तावदशुचि:,
परेभ्यस्स्यात्क्लेशो जननमरण-व्याधिनिरयाः ।
यदात्मानं शुद्धं कलयति शिवाकारमचलं,
तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥३९७॥
मनुजः यावत्कालं, स्थूलदेहतादात्म्येन चैतन्यहीनतया तस्य शवत्वं,
पादांगुष्ट-प्रभृति-शिरः पर्यन्तं यच्छरीरं तदेवाहमिति शवाकारं भजति
तावत्कालं तस्य मलमयतया अशुचित्वात् अयमपि स्वतः शुचिरपि अशुचिः ।
तथा परेभ्यः शत्रुव्याघ्रादिभ्यः क्लेश: स्यात् । जननमरण-व्याधिनिरयाः
अस्मिन्लोके जननमरण - व्याधयः, देहमात्मत्वेन मत्वा स्थितस्य पापवत्वात्
योन्यथा सन्तमात्मानं इतिस्मृतेः देहपाते निरयः । एवं सदा
"
66
दुःखवत्वमेव "न ह वै सशरीरस्य सतः प्रियाप्रिययोरपतिरस्ति" इतिश्रुतेः
न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको
नास्ति पर इति मानी पुनः पुनर्वंशमापद्यते मे " इति यमवचनरूपश्रुतेश्च ।
यदा आत्मानं साधनचतुष्टयसंपन्नः विधिवद् गुरुमुपसद्य तन्मुखारविन्द-
गलित श्रुत्यन्त वाक्यैः तदनुसारियुक्तिभिश्च शुद्धं देहत्रयातीतं शिवाकारं
आनन्दस्वरूपं अचलं अप्रमादं यथा तथा कलयति जानाति तदा तेभ्यः
परकृतक्लेशेभ्यः जननमरण-व्याधिनिरयेभ्यश्च मुक्तो भवति । हि
निश्चयः । तत् श्रुतिरप्याह, तदपि श्रुतिराह इति अपिशब्दः भिन्नऋमोवा ।
पूर्वार्धं समुच्चिनोति । यथाश्रुते अपिना अनुभव: समुच्चीयते गुरवश्च ।