This page has been fully proofread once and needs a second look.

वसन्तीति विद्वदनुभवः उक्तः । एतत् ध्रुवं निश्चयः । यद्वा ध्रुवं निश्चलतया
वसन्तीतियोजना ॥३९५ ॥
 
स्फुटं सन्त्यक्तबाह्यत्वात्,
 
जहि मलमयकोशेऽहंधियोत्थापिताशां,
प्रसभमनिलकल्पे लिंगदेहेपि पश्चात् ।
निगमगदितकीर्तिं नित्यमानन्दमूर्तिं,
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ ३९६॥
 
मलमयकोशे प्राचुर्यार्थीथे मयट्, स्थूलदेहे अहंधिया उत्थापिता जनिता
या आशा तस्मिन् पोषणार्थेषु च, तां प्रसभं बलात्कारेण जहि नाशय ।
मलमयेति हेतुगर्भ विशेषणं अहंधियः हानार्थम् । उक्तं हि " पिण्डाण्डं
त्यज्यतां मलभाण्डवदिति ।" पश्चात् स्थूल देहसम्बन्ध्याशानाशानन्तरं
अनिलकल्पे वायुवददृश्ये लिंगदेहेपि सप्तदशावयवोपेते सूक्ष्मशरीरे अपि
अहंधिया उत्थापिता या आशा मनोनुकूल-विषयेषु, तां जहि प्रथमत एव
सूक्ष्मत्यागस्य दुष्करत्वात् दूरदूर-स्थूलपदार्थत्यागेन सन्निहितसूक्ष्मत्यागः
सुकर: इति स्थूलपदार्थ-विषयाशाः जहीत्यादावुक्तम् । तत्र हेतुः अहंधी-
रिति-कथनेन दृष्टभीभत्से अहंधियोभावे आशा नैव जायते निमित्ता-
पायात् इति सूचितं । श्रुतिश्च अस्माल्लोकात्प्रेत्य, एतमन्नमयमात्मान-
मुपसंक्रामतीत्यादिना पुत्रमित्रादिषु बाह्येषु अहंतां त्यक्त्वा देहमात्र-
मात्मत्वेन मन्वीत, ततः ततोन्तरं प्राणमेव इति प्रतिपत्तॄणां सौकर्याय
उपदिदेश । तेनैव क्रमेण प्रथमं देहार्थ-पुत्रादिविषयेषु आशापरित्यागः
आशैव त्यक्तव्या इति यदा तदा किं वक्तव्यं अहंताया विषये । ततः स्थूल-
शरीरे अहंतायाः आशायाश्च त्यागः, ततः प्राणमय-मनोमय-विज्ञानमय-
घटिते सूक्ष्मशरीरे पंचकोशविवेकप्रकरणोक्तयुक्तिभिः अहंधियं तत्प्रयो-
ज्याशां च जहि नाशय, मानभूवं हि भूयासं इति परप्रेमात्मनि सर्वस्यास्ति ।
स्थूलादावहंधियि अयं प्रेमा तत्रैव भवतीति आशा दुर्निरसा । अतः क्रमेण-
विचारेण जनितदृढ-विवेकज्ञानेन स्थूल-सूक्ष्मशरीरयोः अहंतायां त्यक्तायां
प्रियमोदाद्यवयवोपेतानन्दमयकोशे सावयवत्वाद् औपाधिकत्वाच्च
अनित्यत्वनिश्चयेन अहंता नैव संभवति । एवं पंचकोशान् अनात्मत्वेन