This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२१३
 
वसन्तीति विद्वदनुभवः उक्तः । एतत् ध्रुवं निश्चयः । यद्वा ध्रुवं निश्चलतया

वसन्तीतियोजना ॥३९५ ॥
 

 
स्फुटं सन्त्यक्तबाह्यत्वात्,
 

 
जहि मलमयकोशेऽहंधियोत्थापिताशां,

प्रसभमनिलकल्पे लिंगदेहेपि पश्चात् ।

निगमगदितकीर्तितिं नित्यमानन्दमूर्तितिं,
 

स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ ३९६॥
 

 
मलमयकोशे प्राचुर्यार्थी मयट्, स्थूलदेहे अहंधिया उत्थापिता जनिता

या आशा तस्मिन् पोषणार्थेषु च, तां प्रसभं बलात्कारेण जहि नाशय ।

मलमयेति हेतुगर्भ विशेषणं अहंधियः हानार्थम् । उक्तं हि " पिण्डाण्डं

त्यज्यतां मलभाण्डवदिति ।" पश्चात् स्थूल देहसम्बन्ध्याशानाशानन्तरं

अनिलकल्पे वायुवददृश्ये लिंगदेहेपि सप्तदशावयवोपेते सूक्ष्मशरीरे अपि

अहंधिया उत्थापिता या आशा मनोनुकूल-विषयेषु, तां जहि प्रथमत एव

सूक्ष्मत्यागस्य दुष्करत्वात् दूरदूर -स्थूलपदार्थत्यागेन सन्निहितसूक्ष्मत्यागः

सुकर: इति स्थूलपदार्थ-विषयाशाः जहीत्यादावुक्तम् । तत्र हेतुः अहंधी-

रिति-कथनेन दृष्टभीभत्से अहंधियोभावे आशा नैव जायते निमित्ता-

पायात् इति सूचितं । श्रुतिश्च अस्माल्लोकात्प्रेत्य, एतमन्नमयमात्मान-

मुपसंक्रामतीत्यादिना पुत्रमित्रादिषु बाह्येषु अहंतां त्यक्त्वा देहमात्र-

मात्मत्वेन मन्वीत, ततः ततोन्तरं प्राणमेव इति प्रतिपत्तॄणां सौकर्याय

उपदिदेश । तेनैव क्रमेण प्रथमं देहार्थ - -पुत्रादिविषयेषु आशापरित्यागः

आशैव त्यक्तव्या इति यदा तदा किकिं वक्तव्यं अहंताया विषये । ततः स्थूल-

शरीरे अहंतायाः आशायाश्च त्यागः, ततः प्राणमय-मनोमय-विज्ञानमय-

घटिते सूक्ष्मशरीरे पंचकोशविवेकप्रकरणोक्तयुक्तिभिः अहंधियं तत्प्रयो-

ज्याशां च जहि नाशय, मानभूवं हि भूयासं इति परप्रेमात्मनि सर्वस्यास्ति ।

स्थूलादावहंधियि अयं प्रेमा तत्रैव भवतीति आशा दुर्निरसा । अतः क्रमेण-

विचारेण जनितदृढ - -विवेकज्ञानेन स्थूल-सूक्ष्मशरीरयोः अहंतायां त्यक्तायां
 

प्रियमोदाद्यवयवोपेतानन्दमयकोशे
 
सावयवत्वाद्
 
औपाधिकत्वाच्च
 

अनित्यत्वनिश्चयेन अहंता नैव संभवति । एवं पंचकोशान् अनात्मत्वेन