This page has not been fully proofread.

२१२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
""
 
66
 
यद्वा अनन्यत् सर्वात्मकं अत एवाद्वयं स्वव्यतिरिक्तद्वितीयशून्यं परब्रह्मैव
स्वयं जीवः आत्मा अतः अन्यत् बोध्यं किमस्तीत्यर्थः । आकाशवदिति
श्रोतृबुध्यारोहाय दृष्टान्तः इषुरिव सविता धावतीतिवत् । नहि ब्रह्मणः
सदृशं वस्दु विद्यते "न तत्सम इतिश्रुतेः । आकाशस्य " प्रतिज्ञाऽहानि
रव्यतिरेकाच्छब्देभ्यः" इत्युत्पत्तिसाधनात् । लोके तदुत्पत्यादेः अदृष्टत्वात्
तद्वन्निविकारं ब्रह्मेति "आकाशवत्सर्वंगतश्च नित्यः" इत्यादिवद्वक्तुं
शक्यत्वात् ॥ ३९४॥
 
वक्तव्यं किमु विद्यतेत्र बहुधा ब्रह्मैव जीवस्स्वयं
ब्रह्मैतज्जगदापराणु सकलं ब्रह्माद्वितीयं श्रुतेः ।
ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्यक्तबाह्याः स्फुटं
 
ब्रह्मभूय वसन्ति संततचिदानन्दात्मनैव ध्रुवम् ॥ ३९५॥
 
61
 
"
 
"
 
अत्र ब्रह्मैकत्वविषये बहुधा अनेकप्रकारैः वक्तव्यं किमु विद्यते,
सम्यग्बुध्यारोहाय बहुभि: दृष्टान्तैः सर्ववेदान्ततात्पर्य - विषयार्थः प्रति-
पादितः तं संग्रहेण कथयति । बिस्तरसंग्रहाभ्यां उक्तोर्थ: सम्यज्ज्ञातुं
शक्यत इति वदन्ति इलोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः " इति । ब्रह्मैव जीवस्स्वयं
जीवत्वमेवोपाधिकं ब्रह्मत्वं तु जीव इतिज्ञातस्य वास्तविकं स्वरूपं रज्जुरिव
सर्पस्य । अतः जीवस्स्वयं ब्रह्मैव न व्यतिरिक्तः । आपराणु परमाणु-
पर्यन्तं सकलमेतत् जगत् वियदादि ब्रह्मैव तज्जत्वात् तल्लत्वात् तदनत्वात्
च " सर्वं खल्विदं ब्रह्म, तज्जलानिति शान्त उपासीत " इतिश्रुतेः तज्जलान-
मिति भवितव्ये अवयवलोपश्छान्दसः परमे व्योमन् इत्यादिवत् ।
अनादि अज्ञानादिकमपि तत्राधिष्ठाने कल्पितमिति न ततोतिरिच्यते अतः
ब्रह्म अद्वितीयं स्वव्यतिरिक्तवस्तुशून्यं तत्त्वमसि अयमात्मा ब्रह्म
" इदं सर्वं यदयमात्मा" "आत्मैवेदं सर्वं" "ब्रह्मैवेदं सर्व" "एकमेवाद्वितीयं
इत्यादिश्रुतेः । ब्रह्मैवाहमिति प्रबुद्धमतयः प्रबुद्धा श्रुत्याचार्योपदेशेन ज्ञात-
ज्ञेया मतिः बुद्धिः येषां ते प्रबुद्धमतयः स्फुटं वासनया सह सन्त्यक्तबाह्याः
स्वरूपतस्त्यक्ताहमादयः ब्रह्मीभूय, पूर्वमज्ञानात् अब्रह्मत्वं स्वस्य कल्पितं
तदभिप्रायेण च्विप्रत्ययः, साक्षात्कृतब्रह्मभावा: संततचिदानन्दात्मनैव
 
""
 
"
 
""
 
((