This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२११
 
अतः भ्रान्तिनाशार्थं अद्वैतवस्तु चिन्तनीयमित्याह श्रुत्यवष्टंभेन ।

क्रियासमभिहारेणेति ।
 

 
क्रियासमभिहारेण यत्र नान्यदितिश्रुतिः ।

ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥ ३९३ ॥
 

 
"
 
"6
 
'
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा '
"
इतिश्रुतिः क्रियासमभिहारेण पौनः पौन्येन द्वैतराहित्यं द्वयोर्भावः द्विता

सैव द्वैतं तस्य भेदस्य राहित्यं अभावं ब्रवीति । किमर्थमिति चेत् मिथ्या-

ध्यासनिवृत्तये मिथ्याभूतः यः अध्यासः भेदभ्रमः तन्निवृत्तये । यद्वा

अध्यासशब्देन प्रपंचरूपार्थाध्यासः ग्राह्यः तस्य निवृत्तये तस्य अधिष्ठानाव-

शेषत्व - लक्षणनाशाय बाधायेति यावत् "अधिष्ठानावशेषो हि नाश:

कल्पितवस्तुनः " इत्यभियुक्तोक्तेः
यदि
 
((
 
रज्जुसर्पादौ दृष्टत्वाच्च ।
 
अतः
 
यदि
विश्वं सत्यं स्यात् कथं दर्शन - श्रवण - विज्ञानादिविषयो नस्यात् ।
अतः
ब्रह्मणि वर्तमानस्य पुरुषस्य विश्वभानाभावात् मिथ्येति भावः ॥३९३॥
 

 
ब्रह्मस्वरूपं सम्यक् चित्ते आरोहयति ध्यातुम् । आकाशेति ।

 
आकाशवन्निर्मल-निर्विकल्प-

निस्सीम-निस्स्पंदननिर्विकारम् ।

अन्तर्बहिश्शून्यमनन्य-मद्वयं
 

स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥ ३९४ ॥
 

 
अन्तर्बहिश्शून्यमित्यन्तं आकाशब्रह्मणोः साधर्म्यं, अनन्यं अद्वयमिति

ब्रह्मविशेषणं, आकाशवत् निर्मलं नह्याकाशं धूल्यादिभिः धूसरितं भवति

तथा ब्रह्मापि अज्ञानाद्यस्पृष्टं वस्तुतः निर्विकल्पं एकरूपं इत्यर्थः । निस्सीमं

अनवधि, निस्स्पन्दनं निष्क्रियं, निनिीविकारं उत्पत्तिनाश-वृद्धिह्रासादिशून्यं,

अन्तर्बहिश्शून्यं परिच्छिन्नस्य हि अन्तर्बहिरिति, पूर्णत्वात् अन्तर्बहिश्शून्यं

स्वगतभेदरहितं, अनन्यत् प्रत्यगभिन्नं न अन्यत् अनन्यत्, अद्वयं न विद्यते

द्वयं यस्य अद्वितीयं इत्यर्थ: । विजातीयशून्यं, स्वयं स्वतस्सिद्धं परं ब्रह्म

तस्मिन् बुद्धे किं अस्ति बोध्यं । एकस्मिन् विदिते सर्वं विदितं भवति इति

सर्वात्मके परमात्मनि विदिते न किमपि बोद्धव्यमवशिष्यत इतिभावः ।