This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२११
 
अतः भ्रान्तिनाशार्थं अद्वैतवस्तु चिन्तनीयमित्याह श्रुत्यवष्टंभेन ।
क्रियासमभिहारेणेति ।
 
क्रियासमभिहारेण यत्र नान्यदितिश्रुतिः ।
ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥ ३९३ ॥
 
"
 
"6
 
'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा '
इतिश्रुतिः क्रियासमभिहारेण पौनः पौन्येन द्वैतराहित्यं द्वयोर्भावः द्विता
सैव द्वैतं तस्य भेदस्य राहित्यं अभावं ब्रवीति । किमर्थमिति चेत् मिथ्या-
ध्यासनिवृत्तये मिथ्याभूतः यः अध्यासः भेदभ्रमः तन्निवृत्तये । यद्वा
अध्यासशब्देन प्रपंचरूपार्थाध्यासः ग्राह्यः तस्य निवृत्तये तस्य अधिष्ठानाव-
शेषत्व - लक्षणनाशाय बाधायेति यावत् अधिष्ठानावशेषो हि नाश:
कल्पितवस्तुनः " इत्यभियुक्तोक्तेः
यदि
 
((
 
रज्जुसर्पादौ दृष्टत्वाच्च ।
 
अतः
 
विश्वं सत्यं स्यात् कथं दर्शन - श्रवण - विज्ञानादिविषयो नस्यात् ।
ब्रह्मणि वर्तमानस्य पुरुषस्य विश्वभानाभावात् मिथ्येति भावः ॥३९३॥
 
ब्रह्मस्वरूपं सम्यक् चित्ते आरोहयति ध्यातुम् । आकाशेति ।
आकाशवन्निर्मल-निर्विकल्प-
निस्सीम-निस्स्पंदननिर्विकारम् ।
अन्तर्बहिश्शून्यमनन्य-मद्वयं
 
स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥ ३९४ ॥
 
अन्तर्बहिश्शून्यमित्यन्तं आकाशब्रह्मणोः साधर्म्यं, अनन्यं अद्वयमिति
ब्रह्मविशेषणं, आकाशवत् निर्मलं नह्याकाशं धूल्यादिभिः धूसरितं भवति
तथा ब्रह्मापि अज्ञानाद्यस्पृष्टं वस्तुतः निर्विकल्पं एकरूपं इत्यर्थः । निस्सीमं
अनवधि, निस्स्पन्दनं निष्क्रियं, निविकारं उत्पत्तिनाश-वृद्धिह्रासादिशून्यं,
अन्तर्बहिश्शून्यं परिच्छिन्नस्य हि अन्तर्बहिरिति, पूर्णत्वात् अन्तर्बहिश्शून्यं
स्वगतभेदरहितं, अनन्यत् प्रत्यगभिन्नं न अन्यत् अनन्यत्, अद्वयं न विद्यते
द्वयं यस्य अद्वितीयं इत्यर्थ: । विजातीयशून्यं, स्वयं स्वतस्सिद्धं परं ब्रह्म
तस्मिन् बुद्धे किं अस्ति बोध्यं । एकस्मिन् विदिते सर्वं विदितं भवति इति
सर्वात्मके परमात्मनि विदिते न किमपि बोद्धव्यमवशिष्यत इतिभावः ।