This page has been fully proofread once and needs a second look.

२१०
 
श्रीविवेकचूडामणिः सव्याख्यः
सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
 

सतोन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः ।

पृथक्किं मृत्स्नाया: कलशघटकुम्भाद्यवगतम्
 

दत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥ ३९२ ॥
 

 
सन्घट: सन्पट: सत्कुड्यं इत्यादिवाचा सामानाधिकरण्यवत्या,

भिन्नप्रवृत्तिनिमित्तकयोः शब्दयोः एकस्मिन्नर्थे वृत्तित्वं पदनिष्ठं सामानाधि-

करण्यम् । " एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनां । सामानाधि-
इतिस्वात्मनिरूपणोक्तेः ।
 

करण्यं भवतीत्येवं वदन्ति लाक्षणिकाः
 
"
 
"
 
इतिस्वात्मनिरूपणोक्तेः ।
मनसा च तादृशवाग्जन्यप्रत्ययेनच इदं सर्वं जगत् सदेवेत्यवगतं वाङ्मनसयो-

रिति निमित्तसप्तमी वाङ्मनसाभ्यामित्यर्थः । यद्वा वाक् "ऐतदात्म्यमिदं

सर्वं, वाचारम्भणं विकारो नामधेयं " इत्यादिश्रुतिः मनः प्रपंचप्रविलापन -

मार्गेण "जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पंचभूतानि । परिशिष्टमात्म-

तत्वं पश्यन्नास्ते मुनिश्शान्तः इतिरीत्या अधिष्ठानमात्रविषयिणी

अखण्डाकारवृत्तिः, तयोः वाङ्मनसयोः तस्यां वाचि तस्यां वृत्तौ च ब्रह्म-

व्यतिरेकेण जगन्नैवावगम्यत इति यश्चोरः स स्थाणुरितिवत् इदं सर्वं

जगत् सदेव सद्व्यतिरेकेण नास्ति यश्चोरत्वेन ज्ञातः स स्थाणुः इति

चोरत्वे बाधिते तयोः पदयोः सामानाधिकरण्यं एवं ब्रह्मैवेदं विश्वं

ऐतदात्म्यमिदं सर्वं इत्यादिश्रुतिषु सर्वत्वं बाधित्वा यत्सर्वत्वेन ज्ञातं

तद्ब्रह्मैवेति बोध्यते । इदमुपपादितमधस्तात् । वाङ्मनसयोरित्युक्तमर्थं

विशदयति सत इति । प्रकृतिपरसीम्नि प्रकृतीनां उपादानानां परा या

सीमा उपादानत्वविश्रान्तिभूमिः सर्वोपादानं ब्रह्मेत्यर्थः । तत्र स्थितवतः,

यद्वा प्रकृतेः मूलप्रकृतेः मायायाः परा या सीमा तस्या अपि कल्पनाधिष्ठानं

निर्गुणं ब्रह्म तत्र स्थितवतः सतोन्यन्नास्त्येव "यत्र त्वस्य सर्वमात्मैवाभूत्

तत्केन कं पश्येत्" इतिश्रुतेः । एतेन सर्वेषां बाध उपादानेन अज्ञानेन

सह नाशः उक्तो भवति । तमंशं दृष्टान्तेनाह, पृथगिति घटकलश - कुम्भादि

पूर्वं पृथक्त्वेनावगतं विचार्यमाणे मृत्स्नायाः मृदः पृथक्किम् ? वाचारम्भण-

श्रुतेः । अयमंश: विस्तरेण मृत्कार्यभूतोपीत्यादिना स्वयमाचार्यैः

उपपादितः । मायामदिरया भ्रान्तः त्वं एषः अविवेकी अहमिति एकमपि

वस्तु पृथग्दति । मायैव मदिरा विपरीतग्राहकत्वात् ॥ ३९२ ॥