This page has not been fully proofread.

२१०
 
श्रीविवेकचूडामणिः सव्याख्यः
सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
 
सतोन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः ।
पृथक्क मृत्स्नाया: कलशघटकुम्भाद्यवगतम्
 
बदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥ ३९२ ॥
 
सन्घट: सन्पट: सत्कुड्यं इत्यादिवाचा सामानाधिकरण्यवत्या,
भिन्नप्रवृत्तिनिमित्तकयोः शब्दयोः एकस्मिन्नर्थे वृत्तित्वं पदनिष्ठं सामानाधि-
करण्यम् । " एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनां । सामानाधि-
इतिस्वात्मनिरूपणोक्तेः ।
 
करण्यं भवतीत्येवं वदन्ति लाक्षणिकाः
 
"
 
"
 
मनसा च तादृशवाग्जन्यप्रत्ययेनच इदं सर्वं जगत् सदेवेत्यवगतं वाङ्मनसयो-
रिति निमित्तसप्तमी वाङ्मनसाभ्यामित्यर्थः । यद्वा वाक् "ऐतदात्म्यमिदं
सर्वं, वाचारम्भणं विकारो नामधेयं " इत्यादिश्रुतिः मनः प्रपंचप्रविलापन -
मार्गेण "जनिविपरीतक्रमतो बुध्या प्रविलाप्य पंचभूतानि । परिशिष्टमात्म-
तत्वं पश्यन्नास्ते मुनिश्शान्तः इतिरीत्या अधिष्ठानमात्रविषयिणी
अखण्डाकारवृत्तिः, तयोः वाङ्मनसयोः तस्यां वाचि तस्यां वृत्तौ च ब्रह्म-
व्यतिरेकेण जगन्नैवावगम्यत इति यश्चोरः स स्थाणुरितिवत् इदं सर्वं
जगत् सदेव सद्व्यतिरेकेण नास्ति यश्चोरत्वेन ज्ञातः स स्थाणुः इति
चोरत्वे बाधिते तयोः पदयोः सामानाधिकरण्यं एवं ब्रह्मैवेदं विश्वं
ऐतदात्म्यमिदं सर्वं इत्यादिश्रुतिषु सर्वत्वं बाधित्वा यत्सर्वत्वेन ज्ञातं
तद्ब्रह्मैवेति बोध्यते । इदमुपपादितमधस्तात् । वाङ्मनसयोरित्युक्तमर्थं
विशदयति सत इति । प्रकृतिपरसीम्नि प्रकृतीनां उपादानानां परा या
सीमा उपादानत्वविश्रान्तिभूमिः सर्वोपादानं ब्रह्मेत्यर्थः । तत्र स्थितवतः,
यद्वा प्रकृतेः मूलप्रकृतेः मायायाः परा या सीमा तस्या अपि कल्पनाधिष्ठानं
निर्गुणं ब्रह्म तत्र स्थितवतः सतोन्यन्नास्त्येव "यत्र त्वस्य सर्वमात्मैवाभूत्
तत्केन कं पश्येत्" इतिश्रुतेः । एतेन सर्वेषां बाध उपादानेन अज्ञानेन
सह नाशः उक्तो भवति । तमंशं दृष्टान्तेनाह, पृथगिति घटकलश - कुम्भादि
पूर्वं पृथक्त्वेनावगतं विचार्यमाणे मृत्स्नायाः मृदः पृथक्किम् ? वाचारम्भण-
श्रुतेः । अयमंश: विस्तरेण मृत्कार्यभूतोपीत्यादिना स्वयमाचार्यैः
उपपादितः । मायामदिरया भ्रान्तः त्वं एषः अविवेकी अहमिति एकमपि
वस्तु पृथग्बदति । मायैव मदिरा विपरीतग्राहकत्वात् ॥ ३९२ ॥