This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
स्वयंब्रह्मा स्वयंविष्णुः स्वयमिन्द्रः स्वयंशिवः ।

स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्नकिंचन ॥ ३८९ ॥
 
२०९
 

 
"
तद्धैतत्पश्यन् ऋषिर्वामदेव: प्रतिपेदे, अहं मनुरभवं सूर्यश्च'

इत्यादिश्रुतेः, "सयश्चायं पुरुषे यश्चासावादित्ये स एक: " इतिच, एकमेव

चैतन्यं उपाधिभेदात् ब्रह्मा विष्णुः शिव इन्द्रः इत्येवं व्यवह्रियते । एकैव

रज्जुः सर्पः दण्डः जलधारा भूतलच्छिद्रं इति यथा कल्प्यते तथा इदं सर्वं

विश्वं स्वयं ब्रह्मैव स्वस्मादन्यन्न किंचन सामान्ये विशेषाणां कल्पितत्वात्

स्वयमहं पश्यामि स्वयं त्वं पश्य स्वयं स अद्राक्षीत् इत्यादिव्यवहारेष्वपि

अहंत्व-त्वन्त्व-तत्तादीनां ब्व्यावर्तमानत्वेपि स्वयन्त्वस्य सर्वंत्रानुवर्तमानत्वेन

स्वयंपदार्थे आत्मनि सर्वे विशेषाः कल्पिता: तदतिरेकेण न सन्तीतिभावः

॥३८९॥
 

 
"ब्रह्मैवेदममृतं पुरस्तात्ब्रह्म पश्चात् ब्रह्मदक्षिणतश्चोत्तरेण, अहमेवा-

धस्तात् आत्मैवाधस्तात् " इत्यादिमुण्डकछान्दोग्यादिश्रुत्यर्थं ध्यानदा
र्ढ्याय
वृत्त्याखण्ड्याय च उपदिशति । अन्तरिति ।
 

 
अन्तस्स्वयं चापि बहिस्स्वयं
 

च स्वयं पुरस्तात्स्वयमेव पश्चात् ।

स्वयं ह्यवाच्यां स्वयमप्युदीच्यां
 

तथोपरिष्टात्स्वयमप्यधस्तात् ॥३९०॥
 

 
तरंगफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा ।

चिदेव देहाद्यहमन्तमेतत् सर्वं चिदेवैकरसं विशुद्धम् ॥३९१॥
 

 
भ्रमः आवर्तः, तरंगफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण यथा जलमेव

नातिरिक्तमस्ति तथा देहादि अहमन्तं अहंकारान्तं एतत् सर्वं विशुद्धं

एकरसं चिदेव । यस्य स्फुरणं विना यन्न स्फुरति न तत्ततोतिरिच्यते यथा

रज्जुसर्पादि । "तमेव भान्तमनुभातिसर्वं तस्य भासा सर्वमिदं विभाति "

इतिश्रुतेः आत्मभानव्यतिरेकेण भानाभावात् सर्वमात्मैव ॥ ३९१ ॥
 
66