2023-03-02 10:26:58 by Vasant
This page has been fully proofread once and needs a second look.
व्यवहार
इतिव्यव
ब्रह्म अहमादिविमुक्तं एकमेव ॥ ३८६ ॥
२०८
दार्ष्टान्तिके मृषात्वाच्चोपाधीनां सुलभमेकत्वज्ञानमित्याह । ब्रह्मेति ।
ब्रह्माद्या: स्तंबपर्यन्ता मृषामात्रा उपाधयः ।
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ ३८७ ॥
ब्रह्मा समष्टि-लिंगशरीराभिमानी चतुर्दशभुवनाधिपतिः स आद्य:
येषामुपाधीनां ते ब्रह्माद्याः, स्तंब: अणुतमो जन्तुः सः पर्यन्तः अवधिः
येषां ते स्तंबपर्यन्ताः उपाधयः भेदकदेहाः मृषामात्राः सर्वाधिष्ठाने ब्रह्मणि
कल्पिता: न वस्तुभूताः बाधयोग्याः इत्यर्थः । ततः विमृश्यमाने तेषा-
मप्रतीयमानत्वात् एकात्मना कल्पार्णववत्स्थितं पूर्णं त्रिविधपरिच्छेदशून्यं
स्वमात्मानं स्वमुख्यस्वरूपं ब्रह्म पश्येत् साक्षात्कुर्यात् ॥ ३८७ ॥
सोपपत्तिकं ब्रह्मव्यतिरेकेण भेदकत्वेनाभिमतं किमपि नास्तीत्याह ।
यत्रेति ।
यत्र भ्रान्त्या कल्पितं यद्विवेके
तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।
भ्रान्तेर्नाशे भ्रान्तिदृष्टाहितत्वं
रज्जुस्तस्माद्विश्वमात्मस्वरूपम् ॥ ३८८॥
यत्राधिष्ठाने भ्रान्त्या यत्कल्पितं आरोपितं तत् तन्मात्रं अधिष्ठान-
मात्रं भवति विवेके । विचारं कृत्वा जातेन नायं सर्प इत्यादिनिषेधेन
भ्रान्तेः अयं सर्प इत्याकारिकायाः नाशे सति भ्रान्त्या दृष्टं यदहितत्त्वं
सर्पस्वरूपं रज्जुरेव तद्वत् । अथात आदेशो नेति नेति इत्यादिवाक्यैः
जनितनिषेधज्ञानेन विश्वं सर्वं जगत् अधिष्ठानभूतात्मस्वरूपं पश्चान्नैव
प्रतीयते रज्जुसर्पवदिति भावः ॥ ३८८ ॥