2023-02-23 08:15:30 by Vasant
This page has been fully proofread once and needs a second look.
भवति" इति श्रुत्यवलोकनेन कर्मफलस्यापि नित्यत्वं प्रतीयते। अथापि
'यत्कृतकं तदनित्यं" इति न्यायसहकृत, तद्यथेह कर्मचितेत्यादिश्रुत्यनु-
सारेण आमृताक्षय्यपदयोः संकुचितार्थकत्वस्या- वश्यंवक्तव्यत्वात् न दोषः ।
उक्तं हि " आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते " इति ॥ २१
"
शमस्वरूपं ब्रवीति विरज्येति ।
विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः ।
स्वलक्ष्ये नियतावस्था मनसरशम उच्यते ॥२२
१७
आद्यन्तवत्व-बहुवित्तव्ययायाससाध्यत्व-परिणति-विरसत्वादि-दोषान्
पुनः पुनः विषयेषु पश्यतः पुरुषस्य तत्र वैराग्यं नियतमिति विषयदोषदर्शनं
वैराग्यहेतुरिति । तस्
नियतमवतिष्ठमानं निश्चलं निर्विकारं भवतीति मनोनियतावस्थारूप-
शमस्य वैराग्यजन्यत्वमाह विरज्येति । तत्र ल्यपा उत्तरकालिकत्वस्य
बोधनात् वैराग्यजन्यत्वं बोधितं भवति ॥ २२
दमं निरूपयति विषयेभ्य इति ।
विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ।
उभयेषामिन्द्रियाणां स दमः परिकीर्तितः ॥ २३३॥
मनसः विषयविचार
बाह्येन्द्रियाणां श्रोत्रादीनां ज्ञानकरणानां, वागादीनां कर्मकरणानां च
स्वतस्तत्र सामर्थ्याभावात् प्रग्रहस्थानीयेन मनसा अश्वस्थानीयानां
रिन्द्रियाणां शब्दादिरूप
स्वगोलके कर्णशष्कुली
यत् स दमः परिकीर्तितः । मनआदीनां प्रग्रहादिरूपत्वं कठोपनिषद्युक्तम्
"आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि
प्रग्रहमेव च। इन्द्रियाणि हयानाहु विषयांस्तेषु गोचरान्" इति ।
मार्गानित्यर्थः ॥२३
दमरूप-बहिरिन्द्रिय-निग्रहसाध्यामुपरतिमाह बाह्येति ।