This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
यद्यपि "अपाम सोम॑ममृता अभूम" "अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं
भवति" इति श्रुत्यवलोकनेन कर्मफलस्यापि नित्यत्वं प्रतीयते। अथापि
'यत्कृतकं तदनित्यं" इति न्यायसहकृत, तद्यथेह कर्मचितेत्यादिश्रुत्यनु-
सारेण आमृताक्षय्यपदयोः संकुचितार्थकत्वस्या- वश्यंवक्तव्यत्वात् न दोषः ।
उक्तं हि " आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते " इति ॥ २१३ ॥
 
"
 
शमस्वरूपं ब्रवीति विरज्येति ।
 
विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः ।
 
स्वलक्ष्ये नियतावस्था मनसरशम उच्यते ॥२२३॥
 
१७
 
आद्यन्तवत्व-बहुवित्तव्ययायाससाध्यत्व-परिणति-विरसत्वादि-दोषान्
पुनः पुनः विषयेषु पश्यतः पुरुषस्य तत्र वैराग्यं नियतमिति विषयदोषदर्शनं
वैराग्यहेतुरिति । तस्मिश्च वैराग्ये सति मनस्स्वलक्ष्ये सगुणे निर्गुणे वा
नियतमवतिष्ठमानं निश्चलं निर्विकारं भवतीति मनोनियतावस्थारूप-
शमस्य वैराग्यजन्यत्वमाह विरज्येति । तत्र ल्यपा उत्तरकालिकत्वस्य
बोधनात् वैराग्यजन्यत्वं बोधितं भवति ॥ २२३ ॥
 
दमं निरूपयति विषयेभ्य इति ।
 
विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ।
उभयेषामिन्द्रियाणां स दमः परिकीर्तितः ॥ २३३॥
 
मनसः विषयविचार - सामर्थ्यसत्वात् स्वत एव विरज्येत्युक्तम् ।
बाह्येन्द्रियाणां श्रोत्रादीनां ज्ञानकरणानां, वागादीनां कर्मकरणानां च
स्वतस्तत्र सामर्थ्याभावात् प्रग्रहस्थानीयेन मनसा अश्वस्थानीयानां वहि-
रिन्द्रियाणां शब्दादिरूप - विषममार्गेभ्यः परावर्त्य पराङ्मुखीकृत्य स्व-
स्वगोलके कर्णशष्कुली - बदनादि देशेषु स्थापनं उपरतव्यापारतासम्पादनं
यत् स दमः परिकीर्तितः । मनआदीनां प्रग्रहादिरूपत्वं कठोपनिषद्युक्तम्
"आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धि तु सारथिविद्धि मनः
प्रग्रहमेव च। इन्द्रियाणि हयानाहु विषयांस्तेषु गोचरान्" इति ।
मार्गानित्यर्थः ॥२३३॥
 
दमरूप-बहिरिन्द्रिय-निग्रहसाध्यामुपरतिमाह बाह्येति ।