This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
आत्मानं उल्लेखयन् विषयीकुर्वन् स्वस्वरूपतया स्फुटं विजानीयात्

॥३८२॥
 

 
अत्रात्मत्वं दृढीकुर्वन् अहमादिषु संत्यजन् ।

उदासीनतया तेषु तिष्ठेद् घटपटादिवत् ॥३८३ ॥
 
२०७
 

 
अत्र परमात्मनि आत्मत्वं स्वस्वरूपत्वं दृढीकुर्वन् निश्चिन्वन्

अहमादिषु संत्यजन् तेषु कदाचित्प्रतीतेष्वपि घटपटादिवत् घटपटादिष्विव

तेषु उदासीनतया अहंताशून्यतया तिष्ठेत् ॥३८३ ॥
 

 
वाचं नियच्छात्मनीत्यत्रोक्तं तंचापि पूर्णात्मनीति स्फुटं प्रति-

पादयति । विशुद्धमिति ।
 

 
विशुद्धमन्तःकरणं स्वरूपे निवेश्य साक्षिण्यवबोधमात्रे ।

शनैश्शनैनिश्चलतामुपानयम् पूर्णत्वमेवानुविलोकयेत्ततः ॥३८४ ॥
 

 
विशुद्धं तमोरजोहीनं अन्तःकरणं अवबोधमात्रे अनुपहिते साक्षिणि

स्वरूपे साक्षित्वोपलिक्षते निवेश्य संस्थाप्य शनैश्शनैः निश्चलतामुपानयन्

तत्रैव स्थितौ यत्नं कुर्वन् ततः पूर्णत्वमेवानुविलोकयेत् । दर्पणापनये प्रतिबिंबं

मुखमिव सर्वासु वृत्तिषु निरुद्धासु चिदाभासोपि बिबभूतं ब्रह्मैव भवतीति

भावः ॥ ३८४ ॥
 

 
एवमखण्डाकारवृत्या भंजिते सत्यज्ञानावरणे तत्कृतविक्षेपाः दूर-

निरस्ता एव भवन्ति इतिभावेनाह । स्वाज्ञानक्लृप्तैरिति ।

 
देहेन्द्रिय-प्राणमनोहमादिभिस्स्वाज्ञान-क्लृप्तैरखिलैरुपाधिभिः ।

विमुक्तमात्मान-मखण्डरूपं पूर्ण महाकाशमिवावलोकयेत् ॥३८५॥
 

 
स्पष्टमन्यत् ॥३८५॥
 

 
तत्र चतुर्थपदार्थमुपपादयन् दार्ष्टान्तिकमुपपादयति । घटेति ।

 
घटकलश - कुसूल-सूचिमुख्यै- गंर्गगनमुपाधिशतै-र्विमुक्तमेकम् ।

भवति न विविधं तथैव शुद्धं परमहमादिविमुक्तमेकमेव ॥३८६ ॥
 

 
कुसूलः यत्र धान्यराशिः संम्रियते स महापरिमाणः, सूचि : अत्यल्प -

च्छिद्रा, अल्पै: महद्भिश्च घटकलश-कुसूल सूचिमुख्यैः मुख्यपदेन पाश-