2023-03-02 09:23:00 by Vasant
This page has been fully proofread once and needs a second look.
स
निश्चलं संस्थाप्य ब्रह्मात्मैक्यमुपेत्य साक्षात्कृत्य अनिशं च अखंडवृत्
तन्मयतया ब्रह्मरूपतया आत्मनि, ब्रह्मानन्दरसं मुदा पिब । शून्यै: फल-
रहितैः अनर्थदैश्च अन्यैः अनात्मविषयकैः भ्रमैः अयथार्थज्ञानैः किम् ?
॥३७९॥
२०६
करुणातिरेकात् भगवान् आत्मनिष्ठां मुहुरुपदिशति । अनात्मेति ।
अनात्मचिंतनं त्यक्त्वा कश्मलं दुःखकारणम् ।
चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥३८० ॥
कश्मलं अशुचिविषयकतया अशुचि, अत एव दुःखकारणं अनात्म-
चिन्तनं त्यक्त्वा यत् मुक्तिकारणं आत्यन्तिक
रूपमात्मानं चिन्तय ॥ ३८० ॥
-
चिन्तनप्रकारमुपदिशति । एष इति ।
एषस्वयंज्योति
लक्ष्यं विधायैनमसद्विलक्षणं अखण्डवृत्त्यात्मतयानुभावय ॥३८१॥
एष आत्मा स्वयंज्योतिः इतराप्रकाश्य:, अशेषसाक्षी सर्वद्रष्टा,
विज्ञानकोशे बुद्धौ विलसति अशेषेण भासते । असद्विलक्षणं सर्वावस्था-
स्वनुवर्तमानत्वेन स्वयंज्योतिष्ट्वेन सर्वसाक्षितया च जडदृश्यबुद्ध्यादि-
विलक्षणं एनं अजस्रं, लक्ष्यं विधाय तत्रैव मनः स्थापयित्वा अखण्डवृत्
इतरप्रत्ययामिश्रया धारावाहिक्या आत्मतया स्वस्वरूपतया अनुभवाय
साक्षात्कुरु ॥ ३८१॥
वृत्तावखण्डत्वं स्फुटयति । एतमिति ।
एतमच्छिन्नया वृत्या प्रत्ययान्तरशून्यया ।
उल्लेखयन् विजानीयात् स्वस्वरूपतया स्फुटम् ॥ ३८२॥
प्रत्ययान्तरशून्यया विजातीयप्रत्ययातिरस्कृतया अविच्छिन्नया
निर्मलवर्तितैलदीपज्वालावत् तैलधारावत् धारया वहन्त्या वृत्या एतं