2023-02-20 14:43:06 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
समस्तसाक्षि तमसः परस्तात् " इति कैवल्यश्रुतेः लक्ष्ये ब्रह्मणि मानसं दृढतरं
निश्चलं संस्थाप्य ब्रह्मात्मैक्यमुपेत्य साक्षात्कृत्य अनिशं च अखंडवृत्या
तन्मयतया ब्रह्मरूपतया आत्मनि, ब्रह्मानन्दरसं मुदा पिब । शून्यै: फल-
रहितैः अनर्थदैश्च अन्यैः अनात्मविषयकैः भ्रमैः अयथार्थज्ञानैः किम् ?
॥३७९॥
२०६
करुणातिरेकात् भगवान् आत्मनिष्ठां मुहुरुपदिशति । अनात्मेति ।
अनात्मचिंतनं त्यक्त्वा कश्मलं दुःखकारणम् ।
चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥३८० ॥
कश्मलं अशुचिविषयकतया अशुचि, अत एव दुःखकारणं अनात्म-
चिन्तनं त्यक्त्वा यत् मुक्तिकारणं आत्यन्तिक दुःखनिवृत्तिहेतुः तं आनन्द -
रूपमात्मानं चिन्तय ॥ ३८० ॥
-
चिन्तनप्रकारमुपदिशति । एष इति ।
धियं यच्छ च बुद्धि-
साक्षिणीत्यस्यार्थमाह ।
एषस्वयंज्योति रशेषसाक्षी विज्ञानकोशे विलसत्यजत्रम् ।
लक्ष्यं विधायैनमसद्विलक्षणं अखण्डवृत्यात्मतयानुभावय ॥३८१॥
एष आत्मा स्वयंज्योतिः इतराप्रकाश्य:, अशेषसाक्षी सर्वद्रष्टा,
विज्ञानकोशे बुद्धौ विलसति अशेषेण भासते । असद्विलक्षणं सर्वावस्था-
स्वनुवर्तमानत्वेन स्वयंज्योतिष्ट्वेन सर्वसाक्षितया च जडदृश्यबुध्यादि-
विलक्षणं एनं अजस्रं, लक्ष्यं विधाय तत्रैव मनः स्थापयित्वा अखण्डवृत्या
इतरप्रत्ययामिश्रया धारावाहिक्या आत्मतया स्वस्वरूपतया अनुभवाय
साक्षात्कुरु ॥ ३८१॥
वृत्तावखण्डत्वं स्फुटयति । एतमिति ।
एतमच्छिन्नया वृत्या प्रत्ययान्तरशून्यया ।
उल्लेखयन् विजानीयात् स्वस्वरूपतया स्फुटम् ॥ ३८२॥
प्रत्ययान्तरशून्यया विजातीयप्रत्ययातिरस्कृतया अविच्छिन्नया
निर्मलवतितैलदीपज्वालावत् तैलधारावत् धारया वहन्त्या वृत्या एतं