2023-02-20 14:43:06 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
ब्रह्मणि सदा निरंतरं, श्रेयसे मुक्तये प्रज्ञां तत्त्वप्रबोधहेतुं निर्विकल्पक-
समाधिं कुरु इत्यर्थः । ज्ञानस्य वस्तुतन्त्रत्वेन कर्तुमशक्यत्वात् प्रज्ञा
समाधिः तद्धेतुः ॥३७७॥
२०५
आशां छिन्धि विषोपमेषु विषयेष्वेषैव मृत्योस्सृतिः
त्यक्त्वा जातिकुलाश्रमेष्वभिमति मुंचातिरात्क्रियाः ।
देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि
त्वं द्रष्टास्यमलोसि निर्द्वय परब्रह्मासि यद्वस्तुतः ॥ ३७८ ॥
।
विषोपमेषु विषयेषु आशां छिन्धि, एषैव आशैव मृत्योः स्वरूपा-
त्प्रच्युतिरूपप्रमादस्य सृतिः मार्गः । जातिकुलाश्रमेषु अभिमत त्यक्त्वा,
क्रियाः जात्यादिनिमित्ता: अतिदूरान्मंच । असति मिथ्याभूते देहादौ
आत्मधिषणां अहंबुद्धिं त्यज मा कार्षीः । यत् यस्मात्कारणात् त्वं द्रष्टासि
देहादेर्दृश्यस्य, अमलोसि देहादेः समलत्वात् । वस्तुतः निर्गतं द्वयं यस्मात्
निर्द्वयं अद्वैतं तच्च तत् परब्रह्म असि, तस्मात् आत्मनि ब्रह्मणि प्रज्ञां अहं-
ब्रह्मास्मीति ज्ञानं कुरुष्व निर्विकल्पक-समाधिना संपादय ॥ ३७८॥
लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् ।
ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्यानिशं
6"
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भ्रमैः ॥ ३७९॥
" प्रारब्धं पुष्यति वपुः" इति निश्चित्य देहस्थितितत्पोषणादा-
वभिमानं उपेक्ष्य त्यक्त्वा, निश्चलतनुः "स्थिरसुखमासनं " इतियोग-
सूत्रानुसारेण निश्चलातनुः यस्य, सुखासने उपविश्य बाह्येन्द्रियं ज्ञानकर्मेन्द्रिय
ग्रामं स्वस्थाने स्वस्वगोलके विनिवेश्य विविक्तदेशे च सुखासनस्थ:
शुचिस्समग्रीवशिरश्शरीरः । अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या
स्वगुरुं प्रणम्य । हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्येविशदं विशोकं ।
अचिन्त्य - मव्यक्त-मनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् । तदादि-
मध्यान्तविहीनमेकं विभुं चिदानन्द-मरूपमद्भुतं । उमासहायं परमेश्वरं
प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं । ध्यात्वा मुनिर्गच्छति भूतयोनि