2023-02-20 14:43:06 by ambuda-bot
This page has not been fully proofread.
२०४
श्रीविवेकचूडामणिः सव्याख्यः
करणस्तस्य नित्यं यत् सुखं आत्मस्वरूपं तदनुभूतिः आवरणविक्षेपशून्य-
ज्ञानवत्वा-न्निरर्गलात्मानन्दानुभव: इति भावः ॥३७६॥
न सुखं देवराजस्य न सुखं चक्रवर्तिनः । यादृशं वीतरागस्य
मुनेरेकान्तशीलिनः । यच्च कामसुखं लोके यच्च दिव्यं महत्सुखं ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलां । यावानर्थं उदपाने सर्वतः
संप्लुतोदके । तावान्वेदेषु सर्वेषु ब्राह्मणस्य विजानतः । "श्रोत्रियस्यचा-
कामहतस्य " "सोश्नुते सर्वान्कामान्त्सह" इत्यादिप्रमाणसिद्धमर्थं वैराग्यस्य
बोधस्य च फलं स्वानुभवसिद्धं प्रस्तौति । वैराग्यादिति ।
वैराग्यान्नपरं सुखस्य जनकं पश्यामि वश्यात्मनः
366
तच्चेच्छुद्ध-तरात्मबोधसहितं स्वाराज्य-साम्राज्यधुक् ।
एतद् द्वारमजस्रमुक्तियुवतेः यस्मात्त्वमस्मात्परं
सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥३७७॥
वश्यात्मनः वश्यः आत्मा कार्यकरणसंघातः यस्य आसनप्राणा-
यामादिना देहेन्द्रियादिवशीकारेपि वैराग्यं विना सुखं नास्ति, अणिमादि-
विभूतिषु सक्तानां बन्धस्य अवर्जनीयत्वात् । अवगम्यते हि पुराणादौ
हिरण्यकशिप्वादयः महत् तपः समास्थायापि वैराग्याभावात् संसारिणः
बभूवुरिति । नहि तादृशं तपः अस्थिष्वपि पिपीलिकासंचारेपि अच्युतत्वं
तपसः वश्यात्मत्वं विना संभवति ।
अतः वश्यात्मनोपि सुखं वैराग्यं
विना न संभवतीत्युच्यते । देहादिकं अवशयतः वैराग्यं नैव संभवति इति
वश्यात्मन इत्युक्तम् । तथाच हठयोगादिना वश्यात्मनोपि सुखस्य जनकं
वैराग्यात्परं न पश्यामि । तत् वैराग्यं शुद्धतरः य आत्मबोधः पंचकोश-
विवेकजन्यात्म-स्वरूपावगमः तेन सहितं चेत् स्वाराज्य-साम्राज्यधुक्,
स्वयमेव राट् स्वराट्, रागसत्तायां हि विषयगमनेन मनसः तदधीनता,
वैराग्ये अनन्याधीनः, तस्य भावः स्वाराज्यं इतरानियम्यत्वं तच्च साम्राज्यं
सर्वनियामकत्वं ब्रह्मविदः ईश्वरादप्यधिकत्वात् । ते स्वाराज्य साम्राज्ये
दोग्धीति स्वाराज्य-साम्राज्यधुक् । यस्मात् एतत् वैराग्यं अजस्रमुक्ति-
युवते: द्वारं, तत्तु " अत्यन्तवैराग्यवतः समाधिः " इति पूर्वश्लोके कथितं ।
अस्माद्धेतोः त्वं सर्वत्र विषयेषु परमत्यन्तं अस्पृहया, सदात्मनि सद्रूपे