This page has been fully proofread once and needs a second look.

अहमादिभिः देहप्राणमनोबुद्धयः आदिपदार्थः तैः संगः अवास्तवः तादात्म्य-
रूपसम्बन्धः। इममुभयविधमपि संगं विरक्त एव निष्काममनस्क एव त्यक्तुं
शक्नोति। त्यागे बीजमाह ब्रह्मणि निष्ठित इति । ब्रह्मण्येव नितरां
सर्वदा स्थितः अप्रच्युतमना इत्यर्थः ॥ ३७४ ॥
 
ब्रह्मात्मना संस्थितौ वैराग्यवद् बोधं कारणमाह । वैराग्येति ।
 
वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षौ विजानीहि विचक्षण त्वम् ।
विमुक्ति-सौधाग्रतलाधिरोहणं
ताभ्यां विना नान्यतरेण सिध्यति ॥ ३७५॥
 
हे विचक्षण त्वं पुरुषस्य मुक्तिं प्रेप्सतः वैराग्यबोधौ वैराग्यं च
बोधश्च वैराग्यबोधौ वैराग्यमुक्तं, बोध: आत्मनात्मविवेकजन्यः आत्म-
स्वरूप-याथात्म्यानुभवः पक्षिवत् पक्षिण इव पक्षिवत् षष्ठ्यन्ताद्वतिः पक्षौ
विजानीहि । तत्र हेतुः विमुक्ति सौधाग्रतलाधिरोहणं विमुक्तिरूपं सौधाग्र-
तलं रम्यरम्यमुच्चस्थानं तस्याधिरोहणं प्राप्तिः, ताभ्यां समुच्चिताभ्यां
विना अन्यतरेण वैराग्येण वा बोधेन वा एकेन न सिध्यति । नहि पक्षी
एकेन पक्षेण अम्बरतलं गाहितुमीष्टे तद्वत्प्रकृतेपीतिभावः॥३७५॥
 
तदुपपादयति । अत्यन्तेति ।
 
अत्यन्तवैराग्यवतः समाधिः
समाहितस्यैव दृढप्रबोधः ।
प्रबुद्धतत्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः ॥३७६॥
 
अत्यन्तवैराग्यवतः अत्यन्तं यथा मनः पुनः नैव सज्जते अनात्मसु
तथा तीव्रवैराग्यं जुगुप्सा अस्यास्तीति अत्यन्तवैराग्यवान् तस्य समाधिः
ब्रह्मनिष्ठा संभवति । समाहितस्यैव ब्रह्मणि संस्थापितमनस्कस्यैव दृढ-
प्रबोधः प्रत्ययान्तरामिश्रितब्रह्मप्रत्ययः । प्रबुद्धं तत्वं येन सः प्रबुद्धतत्वः
तस्य बन्धमुक्तिः अनात्मनि आत्मबुद्ध्यनुत्पत्तिः । मुक्तात्मनो नित्य-
सुखानुभूतिः मुक्तः आत्मा यस्य सः मुक्तात्मा अतस्मिन् तद्बुद्धिरहितान्त:-