This page has not been fully proofread.

२०२
 
यथा स्वच्छोपि स्फटिक: नीलवस्त्रादियोगेन नीलादिरूपवत्वेन
भाति स्वयं स्वच्छः सन्नेव, तथा अस्य आत्मनः देहप्राणेन्द्रिय-मनोबुध्यादिभिः
आदिपदेन आनन्दमयकोशः गृह्यते । यैः यैः वृत्तेः समायोगः आकारताख्य-
संबन्धः आन्तरैर्वा बाह्यैर्वा कोशैः तत्तद्भावः तत्तत्तादात्म्यं । तेन तदीयधर्मेंः
धर्मवत्वेन अविद्यास्मितारागद्वेषाभिनिवेशरूपाः पंच क्लेशाः । अस्यैव योगिनः
बहिर्वृत्ती: निरुन्धतः । तत्र हेतुः मुनेरिति कोशपंचकविवेक प्रकारणोक्त-
युक्तिभिः ताननात्मत्वेन निषेधतः । तत्र अहंवृत्तीरकुर्वतः तन्निवृत्या
देहाद्युपाधिनिवृत्या सर्वोपरमणं सर्वेषां दुःखात्मकानां अनात्मनां उपरमणं
अभानं यत्र सुखे तत्सर्वोपरमणं सुखं सम्यग्भवतीति शेषः । तत्र मानं
सदानन्दरसानुभवविप्लव: संदृश्यत इति । विप्लव: मग्नता पूर्णता वा,
निदाघतप्तस्यजाह्नवी- ह्रदनिमग्नस्य यथा अन्तर्बहिरानन्दस्कृति तथा सर्वो-
पाधिविनिर्मुक्तस्य केवलीभूतस्य अखण्डानन्द- स्फूतिरिति भावः ॥३७२॥
 
श्रीविवेकचूडामणिः सव्याख्यः
 
तन्निवृत्या मुनेस्सम्यक्सर्वोपरमणं सुखम् ।
संदृश्यते सदानन्द- रसानुभव - विप्लवः ॥ ३७२ ॥
 
एतस्मिन् निर्विकल्पकयोगे हेतुभूत- सर्वोपाधिनिवृत्तौ वैराग्यं
'योगस्य प्रथमं द्वारं " इति सूत्रस्थानीये श्लोके निराशाशब्देन कथितं
विवेकवैराग्यगुणातिरेकात्" इतिश्लोके मनश्शुद्धिहेतुतया "ताभ्यां
दृढाभ्यां भवितव्यमग्रे" इत्युक्तं तीव्रतमं अन्तरंगसाधनमिति निरूपयति ।
अन्तस्त्याग इति ।
 
66
 
66
 
अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।
त्यजत्यन्तर्बहिस्संगं विरक्तस्तु मुमुक्षया ॥ ३७३॥
बहिस्तु विषयैस्संग: तथान्तरहमादिभिः ।
 
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥ ३७४॥
 
अन्तर्बहिर्भावेन वर्तमानानां सर्वेषां अनात्मनां त्यागः विरक्तस्यैव
युज्यते उपपद्यते । तत्र हेतुः विरक्तस्तु विरक्त एव मुमुक्षया कैवल्येच्छया-
अन्तर्बहिस्संगं त्यजति । अहंममभावं न करोति । संगं विभज्य दर्शयति
बहिरिति, बहिस्तु विषयैः पुत्रादिभिः शब्दादिभिश्च संगः, तथा अन्तः