This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
विजनदेशे शब्दादिविषयाभावात् श्रोत्रादिष्वबहिर्मुखेषु अन्तःकरणं

आत्माभिमुख्यं विन्दत इति भावः । स एव शमः । शमेन अहंवासना

विलयं यायात् प्राप्नुयात् तेन योगिनः अनात्मभ्यो निरुद्धवृत्तिकस्य सदा

सर्वदापि ब्रह्मी आनन्दरसानुभूतिः अनावृतब्रह्मस्वरूपा-नन्दाभिव्यक्तिः,

अचला निश्चला च्युतिशून्या । तस्मात् बाह्येभ्यश्चित्ते निरुद्धे अहंवासनाया

अपि क्षयेण ब्रह्मानन्दानुभवस्य निरर्गलत्वात् मुनेः मननशीलस्य प्रयत्नात्

सततं चित्तनिरोध एव कार्य: । निर्विकल्पक-समाधिः सदानुष्ठेय इत्यर्थः ।

॥३६९॥
 

 
योगस्य प्रथमं द्वारं वाङ्निरोध " इत्युक्तं । तत्र प्रमाणं " यच्छे-

द्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानआत्मनि । ज्ञानमात्मनि महति नियच्छेत्त-

द्यच्छे-च्छान्त आत्मनि" इति कठश्रुतिः, तामर्थत आह । वाचमिति ।
 
((
 
U
 
२०१
 

 
वाचं नियच्छात्मनि तं नियच्छ
 

बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि ।

तं चापि पूर्णात्मनि निर्विकल्पे
 

विलाप्य शान्तितिं परमां भजस्व ॥३७०॥
 

 
वाचं वागिन्द्रियं आत्मनि मनसि नियच्छ निरुन्धि, वाग्व्यापारं
 

विहाय आदौ मनोमात्रेणावतिष्ठस्व इत्यर्थ: । परवादीनामिव यदा मौनं

दृढं भवति ततः संकल्पविकल्पात्मकं मनोरूपात्मानं केवलाध्यवसाय-

लक्षणायां बुद्धौ नियच्छ । तदा वास्यादिरहितः तक्षेव कर्च्त्र्यपि बुद्धिः

बहिर्व्यापारेभ्यः शान्ता भवति । तां शान्तां धियं बुद्धिसाक्षिणि <error>बुध्युपहिते
</error><fix>बुद्ध्युपहिते</fix>
चैतन्ये बुद्धेरुपाधित्वं भंक्त्वा केवलावबोधमात्रे यच्छ । शोधितत्वंपदार्थं

जानीहीत्यर्थः । तंचापि पूर्णात्मनि त्रिविधपरिच्छेदशून्ये निर्विकल्पे निर्गुणे

तत्पदलक्ष्ये ब्रह्मणि विलाप्य एकीकृत्य परमां आत्यन्तिकीं शान्ति मोक्षरूपां

भजस्व ॥३७०॥
 

 
वृत्तिनिरोधस्य स्वरूपानन्दाभिव्यंजकत्वं सोपपत्तिकमाह । देहेति ।

 
देहप्राणेन्द्रियमनो-बुध्यादिभिरुपाधिभिः ।
 

यैर्यैर्वृत्तेस्समायोगः तत्तद्भावोस्य योगिनः ॥ ३७१ ॥
 
F