2023-02-20 14:43:05 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
अतस्समाधत्स्व यतेन्द्रियस्सन् निरन्तरं शान्तमनाः प्रतीचि ।
विध्वंसय ध्वान्तमनाद्यविद्यया कृतं सदेकत्वविलोकनेन ॥ ३६७॥
२००
अतः ब्रह्मतत्वस्फुटावगमार्थं सदा यतेन्द्रियः सन् यतानि निगृहीतानि
इन्द्रियाणि श्रोत्रादीनि येन सः यतेन्द्रियः निरन्तरं सन्ततं प्रशान्तमनाः
शान्तं निर्विकारं मनः यस्य सः शान्तमनाः सन् प्रतीचि प्रत्यगात्मनि
समाधत्स्व मनः संस्थापय, तज्जन्येन सदेकत्वविलोकनेन गतसकलभेद- ब्रह्म-
साक्षात्कारेण, अनाद्यविद्यया अनादिः या अविद्या सर्वसंसारमूलभूता
तया कृतं ध्वान्तं स्वरूपाप्रकाशं विध्वंसय विनाशय ॥ ३६७ ॥
निर्विकल्पक-समाधौ क्रमेणोपायानाह । योगस्येति ।
योगस्य प्रथमं द्वारं वाङ्निरोधोपरिग्रहः ।
निराशा च निरीहा च नित्यमेकान्तशीलता ॥ ३६८॥
योगस्य बाह्यसकलवृत्तिनिरोधस्य वाङ्निरोधः मौनं प्रथमं द्वारं
कारणं व्यवहारेण मनोवृत्तीनां वर्धमानत्वात् । अपरिग्रहः शरीर-
स्थितिमात्र साधनातिरिक्त-भोगसाधनास्वीकारः तत्स्वीकारे तद्रक्षणादौ
व्याप्रियमाणचित्तस्य वृत्तिनिरोधस्यासंभावितत्वात् । आशायां कर्मणि
च चित्तं विक्षिप्यते जनसंघे स्थितौ च अतः निराशा च वैराग्यं, निरीहा
च कर्मभ्य उपरति :, नित्यमेकान्तशीलता एकान्ते विजने देशे शीलं स्थितिः
यस्य एकान्तशीलः सः तद्भावः तत्ता च योगस्य हेतवः ॥ ३६८॥
एकान्तशीलतायाः योगहेतुत्वं उपपादयति । एकान्तेति ।
एकान्तस्थिति-रिन्द्रियोपरमणे हेतुर्दमश्चेतसः
संरोधे करणं शमेन विलयं यायादहंवासना ।
तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः
तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नान्मुनेः ॥ ३६९॥
एकान्तस्थितिः विजनदेश-निवासः इन्द्रियोपरमणे बहिरिन्द्रियाणां
'निर्व्यापारतायां हेतुः । बहिरिन्द्रियोपरम एव दमः सः चेतसः अन्तःकरणस्य
संरोधे करणं " इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः " इति गीतोक्तेः ।