This page has been fully proofread once and needs a second look.

उक्तमर्थं दृष्टान्ते विशदयन् दार्ष्टान्तिके योजयति । क्रियेति ।
 
क्रियान्तरासक्तिमपास्य कीटको
ध्यायन्यथालिं ह्यलिभावमृच्छति ।
तथैव योगी परमात्मतत्वं
ध्यात्वा समायाति तदेकनिष्ठया ॥ ३६०॥
 
कीटक: क्रियान्तरासक्तितिं अपास्य त्यक्त्वा यथा अलिं भ्रमरं ध्यात्वा
स्वात्मानं हिनस्तीति भयादेव चिन्तयित्वा अलिभावं भ्रमरभावं स्वयमपि
भ्रमरत्वं ऋच्छति प्राप्नोति । तत्र पूर्वादारभ्य भेदएव पश्चादपि अयं
भ्रमरो भवति नतु ध्यातभ्रमराभेदः । अत्र भेदस्याज्ञानिकत्वात् अभेदध्यान-
जनित-साक्षात्कारेण अज्ञाने नष्टे भेदप्रसक्तेरेवाभावात् तथैव कीटक-
वत् एकनिष्ठया अनन्यसक्ततया परमात्मतत्वं ध्यात्वा तदेव याथात्म्यं
समायाति । नष्टाज्ञानिकभेदः अभिव्यक्त-स्वतात्विकस्वरूपः भवतीति
भावः । अतएव समायातीति समुपसर्ग: । ध्यानेन अन्यस्याप्यन्यभावे
संभवति स्वध्यानेन स्वस्वरूपाप्तौ कः प्रत्यूह इतिमात्रे तत्रतत्र भ्रमर-
कीटन्यायोदाहरणमिति मन्तव्यम् ॥३६०॥
 
अतीव सूक्ष्म परमात्मतत्वं
न स्थूलदृष्ट्या प्रतिपत्तुमर्हति ।
समाधिनाऽत्यन्त-सुसूक्ष्मवृत्या
ज्ञातव्यमार्यै-रतिशुद्धबुद्धिभिः ॥३६१॥
 
निर्गुणतया अतीव सूक्ष्मं परं पंचकोशविलक्षणं आत्मतत्वं त्रिविध-
परिच्छेदरहितं स्वप्रकाश-सदानन्दरूपं आत्मयाथात्म्यं स्थूलदृष्ट्या
शरीरादि-स्थूलवस्तुविषयिण्या दृष्ट्या अन्तःकरणवृत्या प्रतिपत्तुं व्याप्तुं
नार्हति । अतिशुद्धबुद्धिभि: "ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण: "
कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते" "दृश्यते त्वग्य्रया बुद्ध्या
सूक्ष्मया सूक्ष्मदशिभिः" "ज्ञानप्रसादेन विशुद्धसत्वः ततस्तु तं पश्यते
निष्कलं ध्यायमानः" इत्यादिवचनानुसारेण निर्मलान्तःकरणैः आर्यैः
श्रुतिस्मृत्युक्तमार्गगैः समाधिना अत्यन्तसुसूक्ष्मा प्रपंचाविषयकतया
अखण्डाकारा या वृत्तिः तया ज्ञातव्यं विषयीकर्तव्यम् ॥ ३६१॥