This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१९७
 
उक्तमर्थं दृष्टान्ते विशदयन् दार्ष्टान्तिके योजयति । क्रियेति ।

 
क्रियान्तरासक्तिमपास्य कीटको
 

ध्यायन्यथालिं ह्यलिभावमृच्छति ।

तथैव योगी परमात्मतत्वं
 

ध्यात्वा समायाति तदेकनिष्ठया ॥ ३६०॥
 

 
कीटक: क्रियान्तरासक्ति अपास्य त्यक्त्वा यथा अलिलिं भ्रमरं ध्यात्वा

स्वात्मानं हिनस्तीति भयादेव चिन्तयित्वा अलिभावं भ्रमरभावं स्वयमपि

भ्रमरत्वं ऋच्छति प्राप्नोति । तत्र पूर्वादारभ्य भेदएव पश्चादपि अयं

भ्रमरो भवति नतु ध्यातभ्रमराभेदः । अत्र भेदस्याज्ञानिकत्वात् अभेदध्यान-

जनित - साक्षात्कारेण अज्ञाने नष्टे भेदप्रसक्तेरेवाभावात् तथैव कीटक-

वत् एकनिष्ठया अनन्यसक्ततया परमात्मतत्वं ध्यात्वा तदेव याथात्म्यं

समायाति । नष्टाज्ञानिकभेदः अभिव्यक्त-स्वतात्विकस्वरूपः भवतीति

भावः । अतएव समायातीति समुपसर्ग: । ध्यानेन अन्यस्याप्यन्यभावे

संभवति स्वध्यानेन स्वस्वरूपाप्तौ कः प्रत्यूह इतिमात्रे तत्रतत्र भ्रमर-

कीटन्यायोदाहरणमिति मन्तव्यम् ॥३६०॥
 

 
अतीव सूक्ष्म परमात्मतत्वं
 

न स्थूलदृष्ट्या प्रतिपत्तुमर्हति ।

समाधिनाऽत्यन्त-सुसूक्ष्मवृत्या

ज्ञातव्यमार्यै-रतिशुद्धबुद्धिभिः ॥३६१॥
 

 
निर्गुणतया अतीव सूक्ष्मं परं पंचकोशविलक्षणं आत्मतत्वं त्रिविध-

परिच्छेदरहितं स्वप्रकाश-सदानन्दरूपं आत्मयाथात्म्यं स्थूलदृष्ट्या

शरीरादि-स्थूलवस्तुविषयिण्या दृष्ट्या अन्तःकरणवृत्या प्रतिपत्तुं व्याप्तुं

नार्हति । अतिशुद्धबुद्धिभि: "ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण: "
 
66
 
" ((
 

कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते " "दृश्यते त्वग्य्रया बुद्ध्या

सूक्ष्मया सूक्ष्मदशिभिः" "ज्ञानप्रसादेन विशुद्धसत्वः ततस्तु तं पश्यते
 

निष्कलं ध्यायमानः" इत्यादिवचनानुसारेण निर्मलान्तःकरणैः आर्यैः

श्रुतिस्मृत्युक्तमार्गगैः समाधिना अत्यन्तसुसूक्ष्मा प्रपंचाविषयकतया

अखण्डाकारा या वृत्तिः तया ज्ञातव्यं विषयीकर्तव्यम् ॥ ३६१॥
 
"
 
"