This page has been fully proofread once and needs a second look.

१९६
 
श्रीविवेकचूडामणिः सव्याख्यः
 
दृढं निश्चित्य ये समाहिताः चिदात्मनि संस्थापितमनस्काः, त एव भवपाश-

बन्धैः पाशवद्न्धक-सांसारिक भ्रमैः मुक्ताः । नान्येतु पारोक्ष्यकथाभि-

धायिनः अन्ये अकृतप्रविलापनाः परोक्षशब्दमात्राभिधायकाः नतु नैव

मुक्ता इत्यर्थः ॥३५७॥
 

 
एवं सर्वोपादान- सर्वकल्पनाधिष्ठान-ब्रह्मव्यतिरेकेण किमपि

नास्तीति प्रपंचस्य शून्यत्ववासनायां दृढीभूतायां मनोनाशेन कैवल्यं

निष्प्रत्यूहमिति निरन्तरं निर्विकल्पकसमाधिः कार्य इत्याह । उपाधीति ।

 
उपाधियोगात्स्वयमेव भिद्यते
 

चोपाध्यपोहे स्वयमेव केवलः ।

तस्मादुपाधे: विलयाय विद्वान्
 

वसेत्सदाऽकल्पसमाधिष्ठिया ॥ ३५८ ॥
 
"6
 

 
'एकमेवाद्वितीयं, नेह नानास्ति किंचन '" "नात्र काचन भिदास्ति

इतिश्रुतिजेगीयमानस्वरूपः परमात्मा उपाधियोगादेव भिद्यते । उपाध्य-

पोहे मायापंचकोशरूपोपाधिनिरासे च स्वयं केवल एव, तस्मात् उपाधे-

र्भेदहेतोः अहंकारस्य विलयाय आत्यन्तिकनिवृत्तये सदा निरंतरं अकल्प-

समाधिनिष्ठया अकल्पः निर्विकल्पकः यः समाधिः योगः तस्मिन्निष्ठा

नितरां स्थितिः तया वसेत् ॥ ३५८ ॥
 
(6
 

 
एवं समाधिनिष्ठस्य जीवस्य ब्रह्माकारतायां दृष्टान्तमाह ।
 
सतीति ।
 
"
 

 
सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया ।

कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३५९॥
 

 
एकनिष्ठया ऐदंपर्येण सति ब्रह्मणि सक्तः समाहितमनाः नरः

सद्भावं याति हि निश्चयः । तत्र दृष्टान्तः कीटक: अल्प: कीट: एकनिष्ठया

भ्रमरं ध्यायन् भ्रमरत्वाय भ्रमरभिन्नोपि कल्पते समर्थो भवति । किंपुनः

प्रकृते ब्रह्मैव सन् जीव: अज्ञानादारोपिताब्रह्मभावः सदापि ब्रह्मध्यानात्

ब्र
ह्मैव भवतीति इति भावः ॥ ३५९॥