This page has not been fully proofread.

१९६
 
श्रीविवेकचूडामणिः सव्याख्यः
 
दृढं निश्चित्य ये समाहिताः चिदात्मनि संस्थापितमनस्काः, त एव भवपाश-
बन्धैः पाशवद्वन्धक-सांसारिक भ्रमैः मुक्ताः । नान्येतु पारोक्ष्यकथाभि-
धायिनः अन्ये अकृतप्रविलापनाः परोक्षशब्दमात्राभिधायकाः नतु नैव
मुक्ता इत्यर्थः ॥३५७॥
 
एवं सर्वोपादान- सर्वकल्पनाधिष्ठान-ब्रह्मव्यतिरेकेण किमपि
नास्तीति प्रपंचस्य शून्यत्ववासनायां दृढीभूतायां मनोनाशेन कैवल्यं
निष्प्रत्यूहमिति निरन्तरं निविकल्पकसमाधिः कार्य इत्याह । उपाधीति ।
उपाधियोगात्स्वयमेव भिद्यते
 
चोपाध्यपोहे स्वयमेव केवलः ।
तस्मादुपाधे: विलयाय विद्वान्
 
वसेत्सदाऽकल्पसमाधिष्ठिया ॥ ३५८ ॥
 
"6
 
'एकमेवाद्वितीयं, नेह नानास्ति किंचन 'नात्र काचन भिदास्ति
इतिश्रुतिजेगीयमानस्वरूपः परमात्मा उपाधियोगादेव भिद्यते । उपाध्य-
पोहे मायापंचकोशरूपोपाधिनिरासे च स्वयं केवल एव, तस्मात् उपाधे-
र्भेदहेतोः अहंकारस्य विलयाय आत्यन्तिकनिवृत्तये सदा निरंतरं अकल्प-
समाधिनिष्ठया अकल्पः निर्विकल्पकः यः समाधिः योगः तस्मिन्निष्ठा
नितरां स्थितिः तया वसेत् ॥ ३५८ ॥
 
(6
 
एवं समाधिनिष्ठस्य जीवस्य ब्रह्माकारतायां दृष्टान्तमाह ।
 
सतीति ।
 
"
 
सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया ।
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३५९॥
 
एकनिष्ठया ऐदंपर्येण सति ब्रह्मणि सक्तः समाहितमनाः नरः
सद्भावं याति हि निश्चयः । तत्र दृष्टान्तः कीटक: अल्प: कीट: एकनिष्ठया
भ्रमरं ध्यायन् भ्रमरत्वाय भ्रमरभिन्नोपि कल्पते समर्थो भवति । किंपुनः
प्रकृते ब्रह्मैव सन् जीव: अज्ञानादारोपिताब्रह्मभावः सदापि ब्रह्मध्यानात्
ह्मैव भवतीति इति भावः ॥ ३५९॥