2023-02-20 14:42:33 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
अतः वैराग्यस्य नियतमुत्पत्तये ब्रह्म नित्यं जगदनित्य-मित्यनुक्त्वा ब्रह्म
सत्यं जगन्मिथ्येत्याह । विनिश्चय इति विशेषेण निश्चय इत्यर्थकेन
निश्चयेऽप्रामाण्य-ज्ञानानास्कंदितत्वमुक्तं भवति । सोयमिति, सः विवेकिन
इत्यत्र विवेकिविशेषणत्वेनोक्तः, अयं आदौ नित्यानित्यवस्तु-विवेक
इत्युक्तः इत्यर्थः । अस्यैव ऐहिकामुष्मिक-फलभोगविरागहेतुत्वं नियतमिति
समुदाहृत इत्यत्र समित्युपसर्गेण द्योतितम् ॥ २०३॥
((
विवेकं निरूप्य वैराग्यं निरूपयति । तद्वैराग्यमिति ।
तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभिः ।
देहादि-ब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि ॥ २१३ ॥
ऐहिकदेहादि-भोग्यवस्तुनः दर्शनेन, आमुष्मिक - दिव्यदेहादि-भोग्य -
वस्तुनः श्रवणेन, आदिपदेन दृष्टजातीयस्य श्रुतजातीयस्य अनुमानेन ।
अनुभूयमान - शरीरप्रभृति ब्राह्ममानेन शतवर्षजीवि-चतुर्दश-भुवनाधिपत्या-
वच्छेदक-हिरण्यगर्भ-शरीरपर्यन्तं सर्वस्मिन् भोग्यवस्तुनि अनित्ये मिथ्याभूते
या जुगुप्सा, कदापीदृशपदार्थ सम्बन्धो माभूदिति, काकविष्ठायामिवासह्य-
बुद्धि तद्वैराग्यम् । " शैत्यं हि यत्सा प्रकृतिर्जलस्य" इतिवद्विधेय-
प्राधान्यात् नपुंसकनिर्देश: तदिति । स्वदेहाशुचि - गंधेन न विरज्येत
यः पुमान् । वैराग्यकारणं तस्य किमन्यदुपदिश्यताम् " " सततं प्रवाह्यमानैः
वृषभैः अश्वैः खरैर्गजैः महिषैः । हा कष्टं क्षुत्क्षामैः श्रान्तैन शक्यते
वक्तुम्" "तद्यथेह कर्मचितो लोकः क्षीयते एवमेवासुत्र पुण्यचितो लोकः
क्षीयते " " भूम्नोन्यदार्तम् " "क्षीणे पुण्ये मर्त्यलोकं विशन्ति आब्रह्म-
भुवनाल्लोकाः पुनरावर्तनोर्जन" सूतसंहितायां यज्ञवैभवखण्डे सप्तदशो-
ध्यायः, सर्ववेदान्त- सिद्धान्तसारसंग्रहस्था: "कुक्षौ स्वमातुर्मलमूत्रमध्ये "
इत्यादिना " पुण्यक्षये पुण्यकृतो नभस्थैः निपात्यमानान् शिथिलीकृतांगान् ।
नक्षत्ररूपेण दिवश्च्युतांस्तान् विचार्य कोवा विरतिं न याति " यत्रास्ति
लोके गतितारतम्यं " इत्यन्ताश्च श्लोका: वैराग्यविषयेऽनुसंधेयाः ।
मानुषदेहादेः रोगाद्युपप्लुतत्वं, पश्वादीनामत्यन्त - पारतंत्र्यं मूकत्वादि,
देवानां राक्षसादिपीडितत्वं, शब्दादीनां विषयाणां बहुविधानर्थप्रदत्वं
कुरंगादिदृष्टान्तैः अनुसन्दधानस्य सर्वत्रानात्मसु जुगुप्सा सुलभेति भावः ।
एतच्च शब्दादिभिः पंचभिरेवे" त्यादिना स्वयमुत्तरत्रस्पष्टयिष्यते ।
""
(6