This page has been fully proofread once and needs a second look.

॥ ओम् ॥
प्रास्ताविकम्
 
लोकानविद्यान्धतमसात् उद्धर्तुमेव कृतावतारो भगवान्
वासुदेवःप्रपन्नायार्जुनाय " अध्यात्मविद्या विद्यानाम् " इत्यध्यात्म विद्यामेव सकलविद्यावरिष्ठां प्रत्यपादयत् । साचाध्यात्मविद्या
वेदशिरोभिरुपनिषद्भिः प्रतिपत्तव्या । तत्र संदिहानानां
पुरुषाणां सन्देहा: वैयासिकशारीरकमीमांसानिर्धारितन्यायैरेव
परिहर्तव्याः । उपनिषदां सारसंग्रहभूता भगवद्गीता । उपनिषदः
ब्रह्मसूत्राणि, भगवद्गीता, इत्येतत्त्रयं भगवान् शंकरः परमहंस-
परिव्राजकरूपधृक् प्रसन्नगंभीरैः पदनिगुंभैः व्याख्याय औप-
निषदमात्मतत्वं स्फुटं प्राचीकशत् ।
उपनिषदाद्यर्थपरिशीलनेन समेषामेव आत्मतत्वावगमनं दुश्शकमिति मन्वानः श्रीशंकराचार्यः सुलभावगाहान् बहून् विवेकचूडामण्यादीन् प्रबन्धान्
प्राणैषीत् ।विवेकचूडामणिनामायं प्रबन्धः तेषु चूडामणिरिव
प्रकाशमानः सर्वत्र प्रचुरप्रचुर: समुपलभ्यते । दुरूहमप्यात्म-
तत्वं करतलामलकवत् तत्र स्फुटीभवति । उपनिषद्भाष्यादिषु
दुर्लभप्रवेशानामपि अत्र प्रवेशः सुलभः।
 
एतादृशस्य ग्रन्थरत्नस्य यदि काचित् प्रामाणिकी व्याख्यापि
स्यात् तर्हि हेम्नः परमामोद इति परिकलय्य अस्मदाचार्यपादाः
स्फुटप्रतिपत्तये गभीरावगाहाय च व्याख्यां कांचन व्यरचयन्।
व्याख्यायाः उत्तमत्वविषये नास्माभिः किंचिदपि वक्तव्यमस्ति ।
श्रीचन्द्रशेखरभारतीतिप्रथितप्रातस्मरणीयनामधेयाः अस्म-
दाचार्यपादाः कृततपश्चर्या : सर्वतन्त्रस्वतन्त्राः शास्त्रोपदिष्टा-
र्थानुष्ठाननिष्ठागरिष्ठा: अपरोक्षीकृतात्मतत्वाः जीवन्मुक्ता