This page has not been fully proofread.

॥ ओम् ॥

प्रास्ताविकम्
 

 
लोकानविद्यान्धतमसात् उद्धर्तुमेव कृतावतारो भगवान्

<error>
देव: </error><fix>वासुदेवः</fix>प्रपन्नायार्जुनाय " अध्यात्मविद्या विद्यानाम् " इत्यध्यात्म
विद्यामेव सकलविद्यावरिष्ठां प्रत्यपादयत् । साचाध्यात्मविद्या

वेदशिरोभिरुपनिषद्भिः प्रतिपत्तव्या । तत्र संदिहानानां

पुरुषाणां सन्देहा: <error>वैथासिकशारीरकमीमांसानिर्धारितन्यायैरेव
</error>
<fix>वैयासिकशारीरकमीमांसानिर्धारितन्यायैरेव</fix>
परिहर्तव्याः । उपनिषदां सारसंग्रहभूता भगवद्गीता । उपनिषदः

ब्रह्मसूत्राणि, भगवद्गीता, इत्येतत्त्रयं भगवान् शंकरः परमहंस-

परिव्राजकरूपधृक् प्रसन्नगंभीरैः पदनिगुंभैः व्याख्याय औप-

निषदमात्मतत्वं स्फुटं प्राचीकशत् ।

उपनिषदाद्यर्थपरिशीलनेन
समेषामेव आत्मतत्वावगमनं दुश्शकमिति मन्वानः श्रीशंकरा-
चार्यः सुलभावगाहान् बहून् विवेकचूडामण्यादीन् प्रबन्धान्

प्राणैषीत् ।
विवेकचूडामणिनामायं प्रबन्धः तेषु चूडामणिरिव

प्रकाशमानः सर्वत्र प्रचुरप्रचुर: समुपलभ्यते । दुरूहमप्यात्म-

तत्वं करतलामलकवत् तत्र स्फुटीभवति । उपनिषद्भाष्यादिषु

दुर्लभप्रवेशानामपि अत्र प्रवेशः सुलभः।
 

 
एतादृशस्य ग्रन्थरत्नस्य यदि काचित् प्रामाणिकी व्याख्यापि

स्यात् तर्हि हेम्नः परमामोद इति परिकलय्य अस्मदाचार्यपादाः

स्फुटप्रतिपत्तये गभीरावगाहाय च व्याख्यां कांचन व्यरचयन्।

व्याख्यायाः उत्तमत्वविषये नास्माभिः किंचिदपि वक्तव्यमस्ति ।

श्रीचन्द्रशेखरभारतीतिप्रथितप्रातस्मरणीयनामधेयाः अस्म-

दाचार्यपादाः कृततपश्चर्या : सर्वतन्त्रस्वतन्त्राः शास्त्रोपदिष्टा-

र्थानुष्ठाननिष्ठागरिष्ठा: अपरोक्षीकृतात्मतत्वाः जीवन्मुक्ता