This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१९५
 
प्रविलसति वस्तुतत्वावधृत्या वस्तुयाथात्म्यावधारणेन, सर्व: विकल्प:

विलयनमत्यन्तनिवृत्तितिं उपगच्छेत् प्राप्नुयात् ॥३५५॥
 

 
ससामग्रीकं समाधिं तत्फलं च एकश्लोकेन विशदं कथयति ।

शान्त इति ।
 

 
शान्तो दान्तः परमुपरतः क्षान्तियुक्तस्समाधि
 
धिं
कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् ।

तेनाविद्या-तिमिरजनितान् साधु दग्ध्वा विकल्पान्
 

ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥३५६॥

 
शान्तः निगृहीतमनाः दान्तः निरुद्धबाह्येन्द्रियः, परमत्यन्तं उपरतः

अनालंबितबाह्यवृत्तिः, क्षान्तियुक्तः द्वन्द्वसहिष्णुः, समाधिधिं निर्विशेषे ब्रह्मणि

चित्तस्य संस्थापनं नित्यं कुर्वन्यतिः स्वस्य सर्वात्मभावं केवलीभावं कलयति

अनुभवति, तेन निर्विकल्पसमाधिना, अविद्यैव तिमिरं अन्धकार : तेन

जनितान् उत्पादितान् विकल्पान् विविधकल्पनाः साधु दग्ध्वा भस्मीकृत्य

अत्यन्तमुच्छिद्य निष्क्रियः निर्विकल्पः ब्रह्माकृत्या ब्रह्माकारेण सुखं

निवसति । एतेन * "क्रियानाशे भवेच्चिन्तानाशोस्माद्वासनाक्षयः । वासना-

प्रक्षयो मोक्षः स जीवन्मुक्त इष्यते " इत्युक्तं कथितं भवति । तदर्थं

निष्क्रियो निर्विकल्प इति विशेषणद्वयम् ॥३५६॥
 
((
 

 
एवं मुक्तिसिद्धये समाध्यर्थं अन्तर्बहिः प्रपंच- प्रविलापनं हेतुः, न

केवलं बाह्यशब्दैर्मुक्तिरित्याह । समाहिता इति ।

 
समाहिता ये प्रविलाप्य
 

बाह्यं श्रोत्रादि चेतस्स्वमहं चिदात्मनि ।

त एव मुक्ता भवपाशबन्धैः
 

नान्येतु पारोक्ष्यकथाभिधायिनः ॥ ३५७ ॥
 

 
ये पुरुषाः बाह्यं श्रोत्रादि, एतेन वियदादीनां चिदात्मनि प्रविलापनं

कथितमेव भवति । अहं शृणोमीत्यादि-तादात्म्याध्यासविषयतया

श्रोत्रादीत्युक्तं । आन्तरं चेतः मनः स्वं स्वकीयं, अहं अहंकारंच, चिदात्मनि

प्रविलाप्य चिदात्मव्यतिरेकेण आन्तरं वा बाह्यं वा किमपि नास्तीति