This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सभ्याख्यः
 
दुःखाहंकारादिविलक्षणतया सच्चिदानन्दस्वरूपेण प्रकाशमानः सदानन्द-

घनः कालत्रयाबाध्यानन्दस्वरूपः परात्मा इत्यात्मयाथात्म्यं कथितम्
॥३५२॥
 
१९४
 

 
इत्थं विपश्चित् सदसद्विभज्य
 

निश्चित्य तत्वं निजबोधदृष्ट्या ।

ज्ञात्वा स्वमात्मान-मखण्डबोधं
 

तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ ३५३॥
 

 
इत्थं पूर्वोक्तप्रकारेण विपश्चित् श्रुतिप्रमाणः परमार्थदर्शी मुमुक्षुः

सत् ब्रह्म असत् अविद्या-तत्कार्यं विभज्य सत्यत्वेन मिथ्यात्वेन च निजबोध-

दृष्ट्या विचारजनित - -स्वानुभवनेत्रेण, तत्वं विनिश्चित्य वस्तुयाथात्म्यं

निश्चयेन विज्ञाय, स्वमात्मानं अखण्डबोधं ज्ञात्वा तेभ्यो विमुक्तः,

अनात्मभ्यः अविद्यादि- देहान्तेभ्यः शब्दादिभ्यो विषयेभ्यश्च विशेषेण

मुक्तः, वासनाया अप्यभावः विशेष : मुक्तौ, स्वयमेव शाम्यति अनावृत -
-
स्वच्छ - प्रकाश-रूपेणावतिष्ठत इत्यर्थः ॥ ३५३॥
 

 
एवं कदा भवतीति ज्ञातव्यमत आह । अज्ञानेति ।
 

 
अज्ञानहृदयग्रन्थेर्निश्शेष-विलयस्तदा ।

समाधिनाऽविकल्पेन यदाद्वैतात्मदर्शनम् ॥ ३५४ ॥
 

 
अविकल्पेन निर्विकल्पेन समाधिना पूर्वं कथितलक्षणेन, यदा

अद्वैतात्मदर्शनं निर्भेदपरमात्मसाक्षात्कारः तदा अज्ञानहृदयग्रन्थे: अज्ञान-

प्रयोज्यः यः हृदयग्रन्थिः चिज्जडतादात्म्यं तस्य निश्शेषविलयः वासनया

साकं नाशः इत्यर्थः ॥३५४॥
 

 
त्वमहमिदमितीयं कल्पना बुद्धिदोषात्

प्रभवति परमात्मन्यद्वये निर्विशेषे ।

प्रविलसति समाधा-वस्य सर्वोविकल्प:
 

विलयनमुपगच्छेद् वस्तुतत्वावधृत्या ॥३५५॥

 
बुद्धिदोषात् तमोरजोरूपात् त्वं अहं इदं इतीयं कल्पना प्रभवति

अद्वये अत एव निर्विशेषे परमात्मनि भासते । अस्य विदुषः समाधौ