This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
अग्नेर्योगात् अयः यथा दग्धृ प्रतीयते मृषा, तथा सत्समन्वयात्

सतः परमात्मनः समन्वयात् प्रतिफलनरूप-संबन्धवशात् धीः बुद्धिः मात्रादि-

रूपेण माता मितिः मेयमिति त्रिपुटीरूपेण विजृम्भते अनेकाकारा भवति

मातुर्ज्ञातुः जीवस्यापि धीविशिष्टवेषेण कल्पितत्वमेव । "अन्वेष्टव्यात्म-

विज्ञानात् प्राक्प्रमातृत्वमात्मनः । अन्विष्टस्स्यात्प्रमातैव पाप्मदोषादि-

वर्जितः" इति प्रमातृत्वमपि कल्पितम् ॥ ३५०॥
 
१९३
 

 
भ्रमस्वप्नमनोरथेषु एतत्त्रितयं त्रिपटीरूपं तत्कार्यं सत्समन्वय-

युक्तधीकार्यं यतःमृषा दृष्टं
 

 
ततो विकाराः प्रकृतेरहंमुखाः
 

देहावसाना विषयाश्च सर्वे ।

क्षणेन्यथाभाविन एष आत्मा
 

नोदेति नाप्येति कदापि नान्यथा ॥ ३५१॥
 

 
ततः धीकार्याणां मृषात्वात् प्रकृतेः अविद्यायाः विकाराः अहंमुखाः

देहावसाना: सर्वे विषयाश्च शब्दादयः घटादयश्च, क्षणेऽन्यथाभाविनः

सत्वेन प्रतीयमाना एव विमर्शे क्रियमाणे असन्तो भवन्ति । अतः दृष्ट-

नष्टस्वरूपतया न सत्यभूताः । एष आत्मातु कदापि नोदेति नोत्पद्यते,

नाप्येति न नश्यति वा, अन्यथापि न भवति तस्य धिय इव परिणामोपि

नास्ति नियतैकरूप एव सर्वदावतिष्ठते अतः सत्य इति भावः ॥ ३५१॥

 
नित्याद्वयाखण्ड-चिदेकरूपो बुध्यादिसाक्षी सदसद्विलक्षणः ।

अहंपदप्रत्यय-लक्षितार्थः प्रत्यक्सदानन्दघनः परात्मा ॥३५२॥
 

 
नित्या आद्यन्तविधुरा, अद्वया स्वभिन्नवस्तुशून्या, अत एवाखण्डा

त्रिविधपरिच्छेदरहिता या चित् सैव एकं रूपं यस्य सः नित्याद्वयाखण्ड-

चिदेकरूपः, तत्र मानं बुध्यादिसाक्षी पूर्वमेवोक्तं "विकारिणां सर्वविकार-

वेत्ता नित्योऽविकारो भवितुं समर्हति " इति अतः सदसद्विलक्षण: "अनादि-

मत्परं ब्रह्म न सत्तन्नासदुच्यते " इति गीतावचनात् अविद्यातत्कार्यभिन्न

इत्यर्थः, अहंपदप्रत्यय-लक्षितार्थ: लक्षणावृत्या अहंपदजन्योपस्थितिविषय

इत्यर्थः, प्रत्यक्सदानन्दघन: प्रातिलोम्येन अंचतीति प्रत्यङ् असज्जङ-
7
 
ड-