This page has been fully proofread once and needs a second look.

हि यस्मात्कारणात् परावरैकत्वविवेकवन्हिः परः ईश्वरः अवरः
जीवः तयोरेकत्वविषयकः विवेकः विचारजनितबोधः स एव वन्हिः
अशेषं सकलकार्यैः साकं अविद्यागहन अविद्यैव गहनमरण्यं दहति भस्मी-
करोति "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनि ब्रह्मणो
भेदमसन्तं कः करिष्यति" इतिप्रमाणात् । अद्वैतभावं निर्भेदब्रह्मभावं
समुपेयुष: निरन्तरं साक्षात्कुर्वतः अस्य महात्मनः पुनः संसरणस्य
देहादावात्मभ्रमस्य बीजं कि स्यात् न किमपीत्यर्थः ॥३४७॥
 
सम्यग्वस्तुज्ञानस्य संसारनाशकत्व-प्रकारमाह । आवरणस्येति ।
 
आवरणस्य निवृत्ति-र्भवति च सम्यक्पदार्थ-दर्शनतः ।
मिथ्याज्ञानविनाशः तद्वद्विक्षेप-जनित-दुःखनिवृत्तिः ॥ ३४८ ॥
 
एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः" इत्युक्तत्वात्
आवरणविक्षेपनाशे कुतः संसारबन्ध इति भावः ॥३४८॥
 
सम्यक्पदार्थदर्शनतः आवरणस्य निवृत्ति - र्भवति, मिथ्याज्ञानस्य
अयथाबोधस्य विनाशः भवति, तद्वत् अयथावबोधरूप - विक्षेपेण जनितं
यद्दुःखं तस्य निवृत्तिश्च भवति इतीममर्थं दृष्टान्तेनोपपादयति । एतदिति ।
 
एतत्त्रितयं दृष्टं सम्यग्रज्जु-स्वरूपविज्ञानात् ।
तस्माद्वस्तुसतत्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥ ३४९॥
 
सम्यग्रज्जु-स्वरूपविज्ञानात् एतत्त्रितयं रज्वावरणनिवृत्तिः सर्प-
भ्रान्तिनाशः रज्जुसर्पविक्षेपजनित-भयकम्पादि-प्रयोज्यदुःखनिवृत्तिश्च इति
त्रयं दृष्टं । तस्माद्विदुषा एतज्जानता पुरुषेण बन्धमुक्तये बन्धहेत्वावरण-
विक्षेपनाशाय वस्तुसतत्वं वस्तुनः याथात्म्यं ज्ञातव्यम् ॥३४९॥
 
आत्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं सोपपत्तिकं कथयति । अय इति ।
 
अयोग्नियोगादिव सत्समन्वयान्मात्रादिरूपेण विजृम्भते धीः ।
तत्कार्यमेव त्रितयं यतो मृषा दृष्टं भ्रम -स्वप्नमनोरथेषु ॥ ३५० ॥