This page has been fully proofread once and needs a second look.

श्रीहि यस्मात्कारणात् परावरैकत्वविवेकचूडामणिः सव्याख्यः
 
((
 
हि यस्मात्कारणात् परावरैकत्वविवेक
वन्हिः परः ईश्वरः अवरः

जीवः तयोरेकत्वविषयकः विवेकः विचारजनितबोधः स एव वन्हिः

अशेषं सकलकार्यैः साकं अविद्यागहन अविद्यैव गहनमरण्यं दहति भस्मी-

करोति "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनि ब्रह्मणो

भेदमसन्तं कः करिष्यति" इतिप्रमाणात् । अद्वैतभावं निर्भेदब्रह्मभावं

समुपेयुष: निरन्तरं साक्षात्कुर्वतः अस्य महात्मनः पुनः संसरणस्य

देहादावात्मभ्रमस्य बीजं कि स्यात् न किमपीत्यर्थः ॥३४७॥
 
१९२
 

 
सम्यग्वस्तुज्ञानस्य संसारनाशकत्व - -प्रकारमाह । आवरणस्येति ।

 
आवरणस्य निवृत्ति - -र्भवति च सम्यक्पदार्थ-दर्शनतः ।

मिथ्याज्ञानविनाशः तद्वद्विक्षेप-जनित-दुःखनिवृत्तिः ॥ ३४८ ॥
 

 
एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः" इत्युक्तत्वात्

आवरणविक्षेपनाशे कुतः संसारबन्ध इति भावः ॥३४८॥
 
(6
 
"
 

 
सम्यक्पदार्थदर्शनतः आवरणस्य
 
निवृत्ति - र्भवति, मिथ्याज्ञानस्य

अयथाबोधस्य विनाशः भवति, तद्वत्
अयथावबोधरूप - विक्षेपेण जनितं

यद्
दुःखं तस्य निवृत्तिश्च भवति इतीममर्थं दृष्टान्तेनोपपादयति । एतदिति ।
 
अयथाबोधस्य विनाशः भवति, तद्वत्
 

 
एतत्त्रितयं दृष्टं सम्यग्रज्जु-स्वरूपविज्ञानात् ।

तस्माद्वस्तुसतत्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥ ३४९॥
 

 
सम्यग्रज्जु-स्वरूपविज्ञानात् एतत्त्रितयं रज्वावरणनिवृत्तिः सर्प-

भ्रान्तिनाशः रज्जुसर्पविक्षेपजनित-भयकम्पादि-प्रयोज्यदुःख निवृत्तिश्च इति
त्र्

त्र
यं दृष्टं । तस्माद्विदुषा एतज्जानता पुरुषेण बन्धमुक्तये बन्धहेत्वावरण-

विक्षेपनाशाय वस्तुसतत्वं वस्तुनः याथात्म्यं ज्ञातव्यम् ॥३४९॥
 

 
आत्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं सोपपत्तिकं कथयति । अय
 
इति ।
 

 
अयोग्नियोगादिव सत्समन्वयान्मात्रादिरूपेण विजृम्भते धीः ।

तत्कार्यमेव त्रितयं यतो मृषा दृष्टं भ्रम स्वप्नमनोरथेषु ॥ ३५० ॥