This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
निस्संशयेन भवति प्रतिबन्धशून्यो

निक्षेपणं नहि तदा यदि चेन्मृषार्थे ॥३४५ ॥
 

 
विक्षेपेति । निश्शेषमावरणशक्तिनिवृत्यभावे विक्षेपशक्तिविजयः

विधातुं कर्तुं विषमः असाध्य इत्यर्थ: । दृग्दृश्ययोः आत्मानात्मनोः स्फुटं

पयोजलवत् क्षीरनीरवत् भेदेन मनस्त्रोट्या हंसः परमैः कृते सति आत्मनि

तदा स्वभावात् अयत्नत एव आवरणं नश्येत् । तथा - विवेकानन्तरं आवरण-

भंगार्थं करणीयांश: कोपि नास्ति । तदामृषार्थे मिथ्याभूते अनात्मनि

निक्षेपणं मनसः न चेद्यदि विक्षेपशक्तिविजयः निस्संशयेन प्रतिबन्धशून्यः

भवति ॥ ३४५ ॥
 

 
एतादृशविवेके स्फुटबोधं हेतुमाह। सम्यगिति ।

 
सम्यग्विवेकः स्फुटबोधजन्यः
 

विभज्य दृग्दृश्यपदार्थतत्वम् ।

छिनत्ति मायाकृत-मोहबन्धं
 

यस्माद्विमुक्तस्य पुनर्न संसृतिः ॥ ३४६॥
 

 
स्फुटः असंदिग्धः, अविपर्यस्तः यो बोधः श्रुत्याचार्यप्रसादजनितः

महावाक्यार्थानुभवः तज्जन्य: तदनन्तरकालिकः सम्यग्विवेकः

"
ब्रह्म सत्यं
जगन्मिथ्या " इत्येवंरूपः दृग्दृश्यपदार्थतत्वं आत्मानात्मयथात्म्यं, विभज्य

क्षीरनीरवत्पृथक्कृत्य मायाकृतमोहबन्धं मायया अविद्यया कृतः यो मोहः

स्वरूपतिरोधानं, तेन यो बन्धः अनात्मस्वात्मबुद्धिः तं छिनत्ति समूलकाषं

कषति । तत्र मानमाह यस्माद्विमुक्तस्य पुनर्न संसृतिरिति "न स पुनरा

वर्तते" इतिश्रुतेः, नहि क्षीरादुद्धृतमाज्यं पुनः क्षीरीभवति तथा

स्वप्रकाशानन्दाकारतां यातं मनः न पुनरनात्मसु सज्जत इति भावः

॥३४६॥
 

 
चतुर्थपादार्थ-मुपपादयति । परावरेति ।
 

 
परावरैकत्व - विवेकवह्निः दहत्यविद्यागहनं ह्यशेषम् ।
 

किं स्यात् पुनस्संसरणस्य बीजं अद्वैतभावं समुपेयुषोस्य ॥३४७॥