This page has not been fully proofread.

१९०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
विज्ञेयः समाधि:
 
कारितया चित्तवृत्तेरवस्थितिः । सद्भिः स एव
सविकल्पकः। मृद एवावभानेपि मृण्मयद्विपभानवत् । सन्मात्रवस्तुभानेपि
त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते । ज्ञात्रादि-
भावमुत्सृज्य ज्ञेयमात्रस्थितिर्दुढा । मनसो निर्विकल्पस्स्यात् समाधिर्योग-
संज्ञितः । जले निक्षिप्तलवणं जलमात्रतया स्थितं । पृथङ्-नभाति किन्त्वंभ
एकमेवावभासते । यथा तथैव सा वृत्तिः ब्रह्ममात्रतया स्थिता । पृथङ्-
नभाति ब्रह्मैवाद्वितीयमवभासते । ज्ञात्रादिकल्पनाभावान्मतोयं निवि-
कल्पकः । वृत्तेः सद्भावबाधाभ्यां उभयोर्भेद इष्यते " इति सदृष्टान्तं
तत्तल्लक्षणं । निर्विकल्पेत्याख्या यस्य निर्विकल्पाख्यः सचासौ समाधिश्च
निर्विकल्पाख्यसमाधिः तस्मिन् निश्चला: तेन वा निश्चलाः तानंतरा
विना, आरूढशक्तेः आरूढा प्रवृद्धा शक्ति: नानाभ्रमजनिका यस्य तस्य
अहमः अहंकारस्य विनाशः, पण्डितैरपि कृतवेदान्तश्रवणैरपि सहसा कर्तुं न
शक्यः । हि यस्मात् वासना: अनात्मसंस्काराः अनन्तभवाः अनन्ता:
असंख्याकाः भवाः जन्मानि यासां ताः, यद्वा अनन्तैर्बहुभिः पदार्थैः भवाः
उत्पन्नाः । अतः सकलविधवासनाक्षयार्थं निर्विकल्पकसमाधिरेव शरणम्
॥३४३॥
 
समूलमनष्टायाः विक्षेपशक्तेः वन्धकत्वप्रकारमाह । अहमिति ।
 
अहंबुध्यैव मोहिन्या योजयित्वावृतेर्बलात् ।
विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥३४४॥
 
यदानात्मनि आत्मबुद्धि करोति तदा स्वरूपं तिरोहितं भवति
'यथापकृष्टं शैवालं" इति पूर्वोक्तरीत्या मोहिन्या स्वरूपच्याविकया
अहंबुध्यैव योजयित्वा तत्प्रयोज्यावृतेः स्वरूपाप्रकाशस्य बलात् पुरुषं
पण्डितमपि, विक्षेपशवितः भ्रमपरंपराजनिका, संकल्पकामादिवृत्तिजनिका
च, तद्गुणैः स्वकीयकार्यैः संकल्पादिरूपैः विक्षेपयति बहुवहु बहिरानयति
दूरमात्मन इत्यर्थः ॥ ३४४॥
 
विक्षेपशक्तिविजयो विषमो विधातुं
निश्शेषमावरण-शक्तिनिवृत्यभावे ।
दृग्दृश्ययोः स्फुटपयोजलवद्विभागे
 
नश्येत्तदावरण-मात्मनि च स्वभावात् ॥