This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
देहात्मना तिष्ठतः अत एव बाह्यार्थानुभवप्रसक्तमनसः विषयानुभवे
प्रकर्षेण सक्तमनसः, षष्ठीबहुव्रीहिः, तेन विषयचिन्तनं संकल्पः कामश्च
कथिताः । ततः तत्तत्क्रियां कुर्वतः विषयलाभाद्यर्थं व्याप्रियमाणस्य
दृश्यस्याग्रहणं कथंतु घटते युज्यते । अतः संन्यस्ताखिल-धर्मकर्म-विषयैः
धर्मश्च कर्माणि च विषयाश्च धर्म-कर्म-विषया: अखिलाश्च ते धर्म-कर्म-
विषयाश्च संन्यस्ता यैस्तैः संन्यस्ताखिल-धर्म-कर्म-विषयैः धर्मः वैदिकः
कर्म लौकिक विषयाश्च शब्दादयः नित्यात्म-निष्ठापरैः नित्या या आत्म-
निष्ठा तस्यां परैः आसक्तैः सा परा प्रधानभूता येषां तैः इतिविग्रहेणवा
तदासक्तैः । तत्रहेतुः आत्मनि सदानन्देच्छुभिरिति तैः तत्वज्ञैः, यत्नतः
करणीयं दृश्याग्रहणमित्यन्वयः ॥ ३४१ ॥
 
नित्यात्मनिष्ठा सार्वात्म्य-सिद्धिहेतुरित्यर्थः श्रुतिप्रमाणकः इत्याह ।
 
सर्वेति ।
 
सार्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः ।
 
समाधि विधात्येषा शान्तो दान्त इतिश्रुतिः ॥३४॥
 
(6
 
ब्रह्मनिष्ठगुरुमुखात् कृतं श्रवणरूपं वेदान्तवाक्य- तदर्थश्रवणरूपं कर्म
येन सः, भिक्षुः संन्यासी कृतश्रवणकर्मा तस्य सार्वात्म्यसिद्धये कैवल्यरूप-
सर्वात्मभावनिष्पत्तये एषा शान्तो दान्त इतिश्रुतिः "तस्मादेवं-
विच्छान्तो दान्त उपरतस्तितिक्षु-स्समाहित श्रद्धावित्तो भूत्वाऽत्मन्ये -
वात्मानं पश्येत्" इतिश्रुतिः बहिरन्तःकरणनिरोधेन अनालंबितवाह्यवृत्तिः
आत्मसाक्षात्कारार्थं निरंतर समाधि कुर्यादिति समाहितशब्देन समाधि
विदधाति कर्तव्यत्वेन बोधयतीत्यर्थः ॥ ३४२ ॥
 
तत्र युक्तिमाह । आरूढशक्तेरिति ।
आरूढशक्तेरहमो विनाशः
 
१८९
 
"
 
कर्तुं न शक्यः सहसापि पण्डितैः ।
ये निर्विकल्पाख्य-समाधिनिश्चला:
 
(6
 
तानन्तराऽनन्तभवा हि वासनाः ॥ ३४३॥
 
ये निर्विकल्पाख्य-समाधिनिश्चलाः, समाधिः द्विविधः सविकल्पक:
निर्विकल्पकश्चेति, ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले । तदाकारा-