This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
अपरिच्छिन्नात्मना यः स्थितः एषः मुक्तः । तेन परिच्छिन्न देहाद्यभिमाने
पूर्णात्मना स्थितिर्नास्तीति न स मुक्त इति भावः ॥ ३३९ ॥
 
मुक्तौ हेतुं तस्य हेतुं चाह । सर्वात्मनेति ।
 
१८८
 
सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्नपरोस्ति कश्चित् ।
दृश्याग्रहे सत्युपपद्यतेसौ सर्वात्मभावोस्य सदात्मनिष्ठया ॥३४॥
 
(6
 
'यतो यतो निवर्तते ततस्ततो विमुच्यते, निवर्तनाद्धि सर्वतो न वेत्ति
दुःखमण्वपि" इत्युक्तरीत्या सर्वात्मना बन्धविमुक्तौ हेतुः सर्वात्मभाव एव ।
तस्मात् परः अन्यः कश्चिन्नास्ति "अहं ब्रह्मास्मि यो वेद स सर्वं भवति
त्विदं । नाभूत्या ईशते देवाः तेषामात्मा भवेद्धि सः " इत्युक्तेः । यद्बन्धकं
तदपि स्वभिन्नं बघ्नीयात् नात्मानं कर्तृ-कर्मविरोधात् उक्तं हि "नहि
नट: सुशिक्षितोपि स्वस्कन्धमधिरोक्ष्यति" इति "नह्यग्निरात्मानं दहति
इति च भाष्ये । ततः सर्वात्मभावे प्राप्ते यद् बन्धकत्वेन मतं तदात्मत्वस्याप्य-
वर्जनीयतया कुतो बन्ध: "सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
संपश्यन् ब्रह्म परमं याति नान्येन हेतुना" इतिकैवल्यश्रुतेः इति भावः।
सर्वभूतेषूपादानतया अधिष्ठानतया रज्जुसर्फे रज्जुमिव अनुस्यूतं, सर्व-
भूतानि चात्मानि रज्वां सर्प इव कल्पितानि संपश्यन्निति तदर्थः । तेन
सर्वोपाधिसंबन्ध-विनिर्मुक्ततया केवलीभाव एव सर्वात्मभाव: । नयुपाधि
संबन्धेन परिच्छिन्नस्य सर्वात्मत्वं संभवति । यद्यपि मायायाः व्यापकत्वात्
तद्विशिष्टस्य तत्कार्य - सर्वाधिष्ठानत्वं सुवचं, तथापि मायायाः परिशिष्य
माणत्वात् तदधिष्ठानत्वं शुद्धस्य निरवच्छिन्नचैतन्यस्यैवेति कैवल्यमेव
सर्वात्मभावः । तत्र हेतुः असौ सर्वात्मभावः अस्य ज्ञानिनः सदा निरन्तरं
आत्मनिष्ठया दृश्याग्रहे सत्युपपद्यत इति ॥ ३४० ॥
 
सदात्मनिष्ठायामेव दृश्याग्रहणं नान्यथेत्युपपादयति । दृश्यस्या-
ग्रहणमित्यादिना ।
 
दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो
बाह्यार्थानुभवप्रसक्त-मनसः तत्तत्क्रियां कुर्वतः ।
संन्यस्ताखिल-धर्मकर्म-विषयैः नित्यात्मनिष्ठापरैः
 
तत्वज्ञैः करणीयमात्मनि सदानन्देच्छभिर्यत्नतः ॥ ३४१॥