This page has been fully proofread once and needs a second look.

जगन्मिथ्येति ज्ञानवान् तेन पण्डित: पण्डा ज्ञानं अस्य संजातेति पण्डितः
वस्तुयाथात्म्य-ज्ञानवान्, मुमुक्षुः बन्धनिवृत्तिं कामयमानः स्वपातहेतोः
स्वस्य अधोध: पतनार्थं हि निश्चयेन जानन् असतः अनात्मनः अवलंबं
समाश्रयणं कः कुर्यात् । तत्र दृष्टान्तः शिशुवदिति, शिशुर्हि अज्ञानात्
उपरिभागादध: पतेत् सर्पदीपादिकं गृण्हीयात् । अयं तु ज्ञानी । अतः
विवेकिना अप्रमादेन ब्रह्मसंस्थेन भवितव्यमिति भावः ॥३३७॥
 
पदार्थानवबोधावबोध-रूपविभिन्नधर्माश्रययोः सुप्तिजागरणयोः यथा
एकस्मिन् समानकालिकत्वं नास्ति एवं देहाद्यभिमानमुक्त्योः इत्याह ।
देहादीति ।
 
देहादि-संसक्तिमतो न मुक्ति:
मुक्तस्य देहाद्यभिमत्यभावः ।
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥ ३३८॥
 
"न स पुनरावर्तत " इतिश्रुत्या मुक्तस्य तु पुनः देहादावभिमानो
नैव भवति । यदि भवति न स मुक्त: " विज्ञातब्रह्मतत्वस्य यथापूर्वं
न संसृतिः । अस्ति चेन्नस विज्ञातब्रह्मभावो बहिर्मुखः" इति हि वक्ष्यति ।
अन्वयः स्पष्टः ॥ ३३८॥
 
मुक्तस्वरूपमाह । अन्तरिति ।
 
अन्तर्बहिस्स्वं स्थिर-जंगमेष
ज्ञानात्मनाधारतया विलोक्य ।
त्यक्ताखिलोपाधि-रखण्डरूपः
पूर्णात्मना यस्स्थित एष मुक्तः ॥३३९॥
 
स्थिरजंगमेषु चराचरेषु वस्तुषु, अन्तर्बहिः ज्ञानात्मना आधारतया
स्वं स्वात्मानं विलोक्य साक्षात्कृत्य त्यक्ताखिलोपाधिः त्यक्ताः बाधिताः
अखिलाः उपाधयः अज्ञानतत्कार्यरूपा: येन सः त्यक्ताखिलोपाधिः । अत
एवाखण्डरूपः देशकालवस्तु- परिच्छेदशून्य-सच्चिदानन्द-स्वरूपः पूर्णात्मना