This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१८७
 
जगन्मिथ्येति ज्ञानवान् तेन पण्डित: पण्डा ज्ञानं अस्य संजातेति पण्डितः

वस्तुयाथात्म्य-ज्ञानवान्, मुमुक्षुः न्धनिवृत्तितिं कामयमानः स्वपातहेतोः

स्वस्य अधोध: पतनार्थं हि निश्चयेन जानन् असतः अनात्मनः अवलं
बं
समाश्रयणं कः कुर्यात् । तत्र दृष्टान्तः शिशुवदिति, शिशुहिं अज्ञानात्
र्हि अज्ञानात्
उपरिभागादध: पतेत् सर्पदीपादिकं गृण्हीयात् । अयं तु ज्ञानी । अतः

विवेकिना अप्रमादेन ब्रह्मसंस्थेन भवितव्यमिति भावः ॥३३७॥
 

 
पदार्थानवबोधावबोध-रूपविभिन्नधर्माश्रययोः सुप्तिजागरणयोः यथा

एकस्मिन् समानकालिकत्वं नास्ति एवं देहाद्यभिमानमुक्त्योः इत्याह ।

देहादीति ।
 

 
देहादि-संसक्तिमतो न मुक्ति:
 

मुक्तस्य देहाद्यभिमत्यभावः ।

सुप्तस्य नो जागरणं न जाग्रतः
 

स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥ ३३८॥
 

 
"न
 
पुनरावर्तत " इतिश्रुत्या मुक्तस्य तु पुनः देहादावभिमानो

नैव भवति । यदि भवति न स मुक्त: " विज्ञातब्रह्मतत्वस्य यथापूर्वं

न संसृतिः । अस्ति चेन्नस विज्ञातब्रह्मभावो बहिर्मुखः" इति हि वक्ष्यति ।

अन्वयः स्पष्टः ॥ ३३८॥
 

 
मुक्तस्वरूपमाह । अन्तरिति ।
 

 
अन्तर्बहिस्स्वं स्थिर-जंगमेष
 

ज्ञानात्मनाधारतया विलोक्य ।

त्यक्ताखिलोपाधि-रखण्डरूपः
 

पूर्णात्मना यस्स्थित एष मुक्तः ॥३३९॥
 

 
स्थिरजंगमेषु चराचरेषु वस्तुषु, अन्तर्बहिः ज्ञानात्मना आधारतया

स्वं स्वात्मानं विलोक्य साक्षात्कृत्य त्यक्ताखिलोपाधिः त्यक्ताः बाधिताः

अखिलाः उपाधयः अज्ञानतत्कार्यरूपा: येन सः त्यक्ताखिलोपाधिः । अत

एवाखण्डरूपः देशकालवस्तु- परिच्छेदशून्य-सच्चिदानन्द-स्वरूपः पूर्णात्मना