2023-02-20 14:43:03 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
"
वाह्याभिसंधिः विषयसंगः, ततस्ततोधिकां दुर्वासनां पुनर्जन्मकरीं
मलिनवासनामेव फलं परिवर्धयेत् । उक्तं हि पूर्वं " वासनावृद्धितः कार्यं
कार्यवृध्या च वासना " इति । तज्ज्ञात्वा विवेकैः प्रमादस्य मृत्युताकथना-
वसरे कथितैः विषयसंगस्य महानर्थहेतुत्वबोधकैः हेतुभिः बाह्यमनात्मानं
परिहृत्य बाधित्वा स्वात्मानुसंधि ब्रह्मानुचिन्तनं नित्यं सर्वदा विदधीत
कुर्यात् ॥३३५॥
१८६
बाह्यानुसंधेः बन्धकत्वमुक्त्वा तन्निरोधे क्रमेण परमपुरुषार्थं फलमाह ।
बाह्य इति ।
बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् ।
तस्मिन्सुदृष्टे भवबन्धनाशः बर्हिनिरोधः पदवी विमुक्तेः ॥३३६॥
अत्यन्तं व्यवहरतोपि सुप्तोत्थितस्य मनः प्रसन्नं तिष्ठति । अत
एव " संप्रसाद: " इत्युच्यते सुषुप्तिः सुषुप्तौ बाह्याभावात् । प्रयत्न-
पुरस्सरमेव बन्धके बाह्ये निरुद्धे आनन्दाविर्भावेन प्रसन्नतायां किमु
वक्तव्यम् । मनःप्रसादे " प्रसादे सर्वदा दुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो-ह्याशु बुद्धिः पर्यवतिष्ठते " इतिगीतावचनात् दुःखमुक्तं निर्मलं
मनः सूक्ष्मं एकाग्रं, परमात्मदर्शन- समर्थ भवति। "मनसंवेदमाप्तव्यं,
मनसैवानुद्रष्टव्यं, दृश्यते त्वग्रयया बुध्या सूक्ष्मया" इत्यादिश्रुतेः । तस्मिन्
सुदृष्टे अनन्यतया निरंतरं साक्षात्क्रयमाणे, भववन्धनाश: संसारहेतूनां
सर्वेषामध्यासानां समूलघातः अतः बहिर्निरोधः वृत्तेर्बाह्यानालंबनं विमुक्तेः
पदवी प्रापिका ॥ ३३६॥
एवं बहुप्रकार: विषयचिन्तायां दोषान् दर्शयित्वा ततस्सर्वात्मना
निवर्तयितुं तादृशानां लज्जायै कुत्सां करोति । कः पण्डित इति ।
कः पण्डितः सन् सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी ।
जानन्हि कुर्यादसतोवलंबं स्वपातहेतोः शिशुवन्मुमुक्षुः ॥३३७॥
परमार्थं द्रष्टुं शीलं अस्यास्तीति परमार्थदर्शी अत एव श्रुतिप्रमाण:
श्रुतिरेव प्रमाणं यस्य सः, अतीन्द्रियार्थे तस्या एव मानत्वात्, ततः "यो
वै भूमा तदमृतं अतोन्यदार्तं " इतिश्रुत्या सदसद्विवेकी ब्रह्म सत्यं