2023-02-20 14:42:33 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
आदौ नित्यानित्य-वस्तु-विवेकः परिगण्यते ।
इहामुत्र- फलभोग-विरागस्तदनन्तरम् ॥ १९॥
शमादिषट्क-संपत्तिः मुमुक्षुत्वमिति स्फुटम् ॥
विवेकादीनां मध्ये पूर्वपूर्वस्य उत्तरोत्तर हेतुत्वात् क्रमः समाश्रितः ।
इदं नित्यं इदमनित्यमिति जानानः किल अनित्याद्विरज्येत । अतः नित्या-
नित्यवस्तुविवेकाभावे वैराग्यं दुस्संपादमिति विवेकस्य वैराग्यहेतुत्वम् ।
वैराग्यवत एव पुरुषस्य अन्तर्बहि-रिन्द्रिय-निरोधरूप-शान्ति-दान्ती ।
तत्रापि निरुद्धान्तःकरणस्यैव बहिरिन्द्रिय-निरोधरूपदमः मनस्सम्बन्धाभावे
इतरेषामिन्द्रियाणां अकिंचित्करत्वात् । तर्हि शमेसति दमस्य स्वत-
स्सिद्धत्वात् किमिति तस्य साधनकोटि प्रविष्टत्वमिति चेत्, "इन्द्रियाणि
प्रमाथीनि हरन्ति प्रसभं मनः " इति गीतोक्तरीत्या बाह्येन्द्रियनिरोधाभावे
शमस्य दृढत्वाभावात् । जितेन्द्रियस्यैव उपरमशब्दित-संन्यासः, तस्यैव
शीतोष्णादि-द्वन्द्वसहिष्णुत्वरूपा तितिक्षा, तस्यैव बाह्यविक्षेपाभावात्
ब्रह्मण्यैदंपर्येणाव-स्थान- लक्षणं समाधानं, एतादृशगुण-विशिष्टस्यैव "ब्रह्मैक
मस्ति जगन्मिथ्ये " त्युपदिश्यमान-गुरुवेदान्तवाक्य-विश्वासरूप-श्रद्धा इति
शमादिष्टकमध्येपि पूर्वापरीभावे कारणं सुवचम् ।
एतादृशः किल
पुरुषधौरेय : मोक्षादन्यन्न कामयते तत्र विलम्बं च न सहत इति तीव्र-
मुमुक्षावान् भवितुमर्हति इत्यभिप्रायेण, आदौ नित्यानित्येत्याद्याह । तद-
,
नन्तरं इहामुत्रफलभोगविराग इति च । तेन विवेकानन्तर्यस्य वैराग्ये
कथनेन "तदुदित स्सहि यो यदनन्तरः इति न्यायेन विवेक-कार्यत्वं
वैराग्ये उक्तप्रायम् । तदनन्तरमिति उत्तरत्राप्यनुषज्यते वैराग्यानन्तरं
शमादिसंपत्तिः, तदनन्तरं मुमुक्षुत्वमिति ॥ १९॥
"
१५
उक्तसाधनानि विवृणोति । ब्रह्मेत्यादिना ।
ब्रह्मसत्यं जगन्मिथ्येवंरूपो विनिश्चयः ।
सोयं नित्यानित्य-वस्तुविवेकः समुदाहृतः ॥ २०३ ॥
ब्रह्म नित्यं जगदनित्यमिति निश्चयसत्वेपि दृढं वैराग्यं न सम्भवति,
अनित्यसुखस्यापि प्रायः काम्यमानत्वात् । जगन्मिथ्येत्युक्ते मिथ्याभूतार्थ:
केनापि न काम्यते । नहि स्वाप्तिकं राज्यं कामयन्ते राज्यकामयितारः ।