This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१८५
 
तप्तपरशुग्रह्मणदृष्टान्तेन सत्यवादी आरोपितचोरत्वकः तप्तपरशुं गृण्हाति
न्यायस्थाने, तथापि सत्यावलंबनेन न दह्यते अथ मुच्यते । वस्तुतः चोरस्तु
नाहं चोर इति अनृतमपि वदन् तदपरित्यजन् हस्तनिक्षिप्ततप्तपरशुः
दह्यते अथ वध्यते इति एतादृशः मलिम्लुचशब्दार्थः । चौर्यमेव निषिद्धं
ततः अनृतवदनादि-निषिद्धपरंपरा, एवं कुर्वतः मिथ्याभिसंधानरतस्य कथं
सत्यप्रतिपत्तिः स्यात्। अतः दुःखोपरि दुःखजातं उपतीत्युक्तम् लोक-
द्वयादपि भ्रंशात् ॥ ३३३॥
 
तस्मात्
 
यतिरसदनुसंधि बन्धहेतुं विहाय
स्वयमय-महमस्मीत्यात्मदृष्ट्यैव
सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
 
हरति परमविद्याकार्यदुःखं प्रतीतम् ॥३३४॥
 
तिष्ठेत् ।
 
ब्रह्मसंस्थत्वस्य सन्यासिन एव संभवात् यतिः सन्यासी बंधहेतुं
असदनुसंधि अब्रह्मचिन्तां स्वयं विहाय अयं परमात्मा अहमस्मीति आत्म-
दृष्ट्यैव तिष्ठेत् । तत्र परमपुरुषार्थं फलमाह ननु यतः ब्रह्मणि निष्ठा अनन्य-
सक्ततया स्थितिः स्वानुभूत्या स्वस्वरूप-स्वयं- प्रकाश - सदानन्दानुभवेन
सुखयति आनन्दयति । प्रतीतं पूर्वमनुभूतं अविद्याकार्यदुःखं अज्ञानतत्कार्य-
प्रयोज्यदुःखं यद्वा अविद्यायाः कार्यं यदुःखं तत् परं अत्यन्तं, हरति
तरति शोकमात्मविदिति श्रुतेः
यत्र नान्यत्पश्यति.. ..स भूमा
"यो वै भूमा तत्सुखम् " इति च । तादृग्ब्रह्मणि सर्वदानिष्ठस्य कुतोऽ-
विद्या कुतः तत्कार्यदुःखं वा ॥ ३३४ ॥
 
"
 
......
 
बाह्येति ।
 
समूलधातं दुःखमपहन्तुं ब्रह्मणि समाधानाय पराङ्मुखत्वं शातयति ।
 
बाह्याभिसंधिः परिवर्धयेत्फलं
 
दुर्वासनामेव ततस्ततोधिकाम् ।
ज्ञात्वा विवेकैः परिहृत्य बाह्यं
 
स्वात्मानुसंधि विदधीत नित्यम् ॥३३५ ॥