2023-02-28 16:19:27 by Vasant
This page has been fully proofread once and needs a second look.
श्रीविवेकचूडामणिः सव्याख्यः
पश्यत्यथामुष्य भयं तदेव यदीक्षितं भिन्नतया प्रमादात् ॥३३१ ॥
एष: विपश्चित् विवेकी ब्रह्मवित् अनन्ते त्रिविधपरिच्छेदशून्ये
ब्रह्मणि अणुमात्रभेदमपि ईषदपि भेदं यदा यदीत्यर्थः, कदा वापि
कदाचिदपि यदि पश्यति अथ तर्हि, प्रमादात् अनवधानात् भिन्नतया
यदीक्षितं तदेवामुष्य विदुषः अमन्वानस्य भयं भयानकं "द्वितीयाद्वै भयं
भवति" इति श्रुतेः सर्वं तं परादात् योन्यत्रात्मनः सर्वं वेद, येन्यथातो विदुः
अन्यराजानः ते क्षय्यलोका भवन्तीति च ॥ ३३१॥
श्रुतिस्मृतिन्याय-शतैर्निषिद्धे
दृश्येत्र यस्स्वात्मम
उपैति दुःखोपरि दुःखजातं
निषिद्धकर्ता स मलिम्लुचो यथा ॥ ३३२ ॥
66
नेति नेति, नेह नानास्ति किंचन, नात्र काचन भिदास्ति
इत्यादिश्रुतिभिः, तदनुसारिणीभिः स्मृतिभिः "अनादिमत्परं ब्रह्म न
सत्तन्नासदुच्यते " इत्याद्याभिः, पंचकोशविवेचनसमये दर्शितैः न्यायैश्च
परश्शतैः दृश्यं देहादिकं अहंकारान्तं नात्मा इति निषिद्धे अत्र दृश्ये देहादौ
यस्स्वात्मम
मलिम्लुचः मलिनान्तःकरणः यथा इतिकर्तव्यतामूढः दुःखोपरि दुःखजातं
उपैति तथा असज्जड-दुःखात्मकानात्मात्मत्वबुध्या दुःखोपरि दुःखजातं
उपैति ॥ ३३२॥
}}
तत्स्फुटयति । सत्येति ।
सत्याभिसंधानरतो विमुक्तो महत्वमात्मीय-मुपैति नित्यम् ।
मिथ्याभिसंधानरतस्तु नश्येद्दृष्टं तदेतद्यदचोर-चोरयोः ॥३३३॥
सत्याभिसंधानरतः ऐदंपर्येण सत्यनिष्ठायां रतः व्यग्रः, पुरुषः
नित्यमात्मीयं महत्वं निर्विकारमनस्त्वं सर्वपूज्यत्वं च, उपैति । मिथ्या-
पदार्थाभिसंधानरतस्तु नश्येत् यस्यावलंबनं मिथ्याभूतमेव तस्य कथं सत्वं,
स नश्यत्येव । दृष्टं तदेतत् यदचोरचोरयोः उक्तमिदं छान्दोग्ये षष्ठाध्याये