This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१८३
 
यत्नः ।
 
विषयेषु शब्दादिषु चेतः मनः आविशत् सत् सज्जमानं सत् तद्-
गुणान् तेषु भोगहेतुतया आनन्दजनकत्वादिगुणान् संकल्पयति चिन्तयति।
सम्यक्संकल्पनात् कामः तेषु इच्छा जायते कामात् पुंसः प्रवर्तनं तत्संपादने
( यद्यद्धि कुरुते जन्तुः तत्तत्कामस्य चेष्टितम्" इतिस्मृतेः ।
ततस्स्वरूपविभ्रंशः स्वरूपात्प्रच्युतिः विस्मरणमित्यर्थः । विभ्रष्टस्तु अधः
अनात्मसु कोशेषु तद्वारा दूरदूरेषु विषयेषु पतति गच्छति । पतितस्य
अतिदूरं नीतस्य नाशं विना, स्वरूपादर्शनमेव नाश: स्वरूपादर्शने सर्वदा
देहादिकं आत्मत्वेन मन्यमानस्य तस्य मरणादिसत्वात् । अस्यापि
सर्वमस्तीति भ्रान्त्या संततसंसारलग्नत्वमेव । पुनर्नारोहःब्रह्मलाभः ईक्ष्यते,
सर्वानर्थस्य कारणं संकल्पं तस्माद्वर्जयेत् न कुर्यात् यथा रोगग्रस्तः वस्तून्य-
पथ्यानि उत्सृजेत् तथा स्वरूपच्युतौ महाननर्थः नाशपर्यन्तः ॥ ३२८ ॥
अतः प्रमादान्नपरोस्ति मृत्युः विवेकिनो ब्रह्मविदः समाधौ ।
समाहितः सिद्धिमुपैति सम्यक्समाहितात्मा भव सावधानः ॥३२९॥
 
अतः विवेकिनः ब्रह्मविदः समाधौ प्रमादात्परः मृत्युर्नास्ति ।
सम्यक्समाहितः ब्रह्मसंस्थः सिद्धं मुक्तिमुपैति । त्वमपि सावधान: प्रमाद -
रहितः समाहितात्मा निरंतरं ब्रह्मनिवेशितान्तःकरणो भव ॥ ३२९ ॥
 
जीवतो यस्य कैवल्यं विदेहे च स केवलः ।
 
यत्किचित्पश्यतो भेदं भयं ब्रूते यजुश्श्रुतिः ॥३३० ॥
 
यस्य पुंसः जीवतः प्राणान्धरतः कैवल्यं सर्वोपाधि-संबन्ध-
विनिर्मुक्तत्वं, स पुरुषधौरेय: विदेहे च देहपातानन्तरमपि केवलः ।
यत्किंचिद्भेदं पश्यतः यजुश्श्रुतिः "यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते,
अथ तस्य भयं भवति" इति भयं ब्रूते उत् अपि, अरं स्वल्पं अन्तरं भेदं
स्वल्पमपि भेदं कुरुते पश्यति अथ तदा तस्य भयं भवति इति । कैवल्ये
हेतुश्च निर्विकल्पकसमाधिनिष्ठैव । वक्ष्यति उपाधिभेदात्स्वयमेव
भिद्यते चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधे: विलयाय विद्वान्
वसेत्सदाऽऽकल्पसमाधिनिष्ठया" इति ॥ ३३०॥
 
((
 
"तत्वेव भयं विदुषोऽमन्वानस्य " इत्यन्तयजुश्रुत्यर्थमाह । यदा
कदावेति ।