This page has not been fully proofread.

१८२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
"
 
"
 
दृष्ट्वा धीदोषैः " परांचि खानि " इति श्रुतेः । " विषयेष्वाविशच्चेतः
इत्यादिना वक्ष्यमाणदोषैः विक्षेपयति नष्टात्मबोधं करोति विशेषेण
चालयति दूरं नयति भ्रामयति ॥ ३२४॥
 
उक्तमर्थं दृष्टान्तान्तरेण आहसुष्ठुप्रतिपत्तये । यथेति ।
यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥३२५॥
पूर्वं कोशपंचकस्य शैवालदृष्टान्तेनैव आवरकत्वमुक्तं " तच्छेवा-
लापनये सम्यक्सलिलं प्रतीयते शुद्धम्" इति क्षणमात्रं शैवालमपकृष्टं
यथा न तिष्ठति पुनरावृणोति सलिलं तथा माया प्राज्ञं वापि कृतकोशपंचक-
निषेधमपि पराङ्मुखं आवृणोति तिरोहितस्वरूपं करोति ॥ ३२५ ॥
 
"न प्रमादादनर्थोन्य " इत्युक्तं दृष्टान्तान्तरेण स्फुटयति । लक्ष्य-
च्युतमिति ।
 
लक्ष्यच्युतं चेद्यदि चित्तमीषद्
बहिर्मुखं सन्निपतेत्ततस्ततः ।
प्रमादतः प्रच्युतकेलि - कंदुक:
 
सोपान पङ्क्तौ पतितो यथा तथा ॥३२६ ॥
 
चित्तं यदीषत् लक्ष्यं ब्रह्म ततः च्युतं चेत् बहिर्मुखं सत् अनात्मप्रवणं
सत् ततस्ततः अहंकारबुद्धि-मनःप्राणेन्द्रिय- देहविषयेषुनिपतेत् यथा प्रमादतः
क्रीडतः पुरुषस्य इच्छाभावेपि प्रमादतः अनवधानवशात् प्रच्युतकेलिकंदुकः
सोपानपङ्क्तौ पतितः अधोधो गच्छति न ग्रहीतुं शक्यते तथा ॥ ३२६॥
 
प्रमादस्य मृत्युत्वं सष्टूपपादयति सार्धद्वयेन,
विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् ।
सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥ ३२७ ॥
 
ततःस्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः ।
पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते ।
संकल्पं वर्जयेत्तस्मात् सर्वानर्थस्य कारणम् ॥ ३२८ ॥
अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजेत् ॥