This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१८१
 
(6
 
39
 
'इयं भूर्न सन्नापि तोयं न तेजो न वायुर्नखं नापि तत्कार्यजातम् । यदेषा-
मधिष्ठानभूतं विशुद्धं सदेकं परं यत्तदेवाहमस्मि " इत्यादिरीत्या बहिः,
"न देहो नचाक्षाणि न प्राणवायुर्मनो नापि बुद्धिनं चित्तं ह्यहंधीः । यदेषा-
मधिष्ठानभूतं विशुद्धं सदेकं परं यत्तदेवाहमस्मि " इत्यन्तः शब्दानुविद्ध-
दृश्यानुविद्ध-सविकल्पक-निविकल्पकभेदेन बहिरन्तर्वा समाहितमनसा त्वया
कर्मबन्धे प्रारब्धाद्विक्षेपे प्रसक्ते कालो नेयः इत्यर्थः ॥३२१ ॥
 
कदापि कथंचिदपि शिष्यो दुःखभाक् माभू-दित्यनुक्रोशेन जात-
विवेकस्यापि दुःखप्रसक्तिमार्ग पुनराह प्रमाद इत्यादिना विस्तरेण ।
 
प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।
 
प्रमादो मृत्युरित्याह भगवान् ब्रह्मणस्सुतः ॥३२२॥
 
कदाचन कदापि, ब्रह्मनिष्ठायां प्रमाद: अनवधानता च्युतिः न
कर्तव्या नाश्रयणीया । यतः भगवान् सर्वज्ञः आजानसिद्धः ब्रह्मणः सुतः
सनत्सुजातः धृतराष्ट्रप्रति " प्रमादं वै मृत्युमहं ब्रवीमि " इति प्रमादो
मृत्युरित्याह् ॥३२२॥
 
तदुपपादयति न प्रमादादित्यादिना ।
 
न प्रमादादनर्थोन्यो ज्ञानिनः स्वस्वरूपतः ।
 
ततो मोहस्ततोहंधीः ततो बन्धस्ततो व्यथा ॥ ३२३॥
 
ज्ञानिनः स्वस्वरूपतः प्रमादात् प्रच्युतेः अन्यः अनर्थ: हानिः न विद्यते
यस्मात् ततः स्वरूपप्रच्युतौ सत्यां मोहः विस्मरणं ततोनात्मनि अहंकारे
अहंधीः ततः बन्धःदेहादावध्यासः ततो व्यथा जरामरणादिजन्या ॥३२३॥
 
अज्ञानिन: एवमस्तु ज्ञानिनोप्येवं किं स्यात् इतिशंकायामाह ।
विषयेति ।
 
विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः ।
विक्षेपयति धीदोषैः योषा जारमिव प्रियम् ॥ ३२४॥
 
योषा प्रियं जारमिव जारं अन्यासक्तं प्रियमिव स्वपतिमिव वा
 
विस्मृतिः ब्रह्मविस्मृतिः विद्वांसमपि विवेकिनमपि विषयाभिमुखं वहिर्मुखं