This page has been fully proofread once and needs a second look.

१८०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
सद्वासनास्फूतिर्तिं-विजृम्भणे
सति ह्यसौ विलीना त्वमादिवासना ।
अतिप्रकृष्टाप्यरुण-प्रभायां
 
सति ह्यसौ विलीना त्वमादिवासना ।
विलीयते साधु यथा तमिस्रा ॥३१९ ॥
 
ततः
 

 
सद्वासनास्फूर्तिविजृम्भणे सति श्रवणमनननिदिध्यासन-संस्कृतस्य

मनसः सदा सर्वत्र सद्भावनया सत्संस्कारस्फुरणवृद्धौ सत्यां तु असौ

विप्रकृष्टा अहमादिवासना आदिपदेन देहेन्द्रियविषयपरिग्रहः । हि
 

निश्चयेन विलीना विशेषेण नष्टा भवतीति शेषः ।
तत्र दृष्टान्तः अति-

प्रकृष्टापि तमिस्रा रात्रिः तमोमयी दर्शादिदिनेषु, अरुणप्रभायां अरुणः

सूर्यसारथिः तस्य प्रभायां साधु विलीयते नश्यति यथा तथा इति पूर्वेणान्वयः

॥३१९॥
 

 
ततः
 
तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे ।

तथाऽद्वयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःखगंधः ॥ ३२०॥
 

 
अरुणोदयानन्तरं दिनेशे भास्करे उदिते सति उदयाचलमारूढे
 
"तत्र
 

सति तमः शार्वरं तमः अन्धकारः तत्कार्यं अनर्थजालं चक्षुः पीडा-चोरबाधा-

मार्गस्खलनादिजात-दुःखकदंबं न दृश्यते यथा तथा अद्वयानन्दरसानुभूतौ

सद्वासनास्फुरणवृद्धिवशात् सच्चिदानन्दैकरसप्रत्यग्ब्रह्मानुभवे सति नैवास्ति

बंधः अनात्मन्यात्मबुद्धिः नच दुःखगन्धः हेतोरध्यासस्य नाशात् ।
"तत्र
को मोहः कः शोक एकत्वमनुपश्यतः " इतिश्रुतेः ॥ ३२० ॥

 
यदि प्रारब्धवशात् जगद् भासेत, तदापि

 
दृश्यं प्रतीतं प्रविलापयन्स्वयं
 

सन्मात्र- मानन्दघनं विभावयन् ।

समाहितस्सन् बहिरन्तरं वा
 

कालं नयेथा-स्सति कर्मबन्धे ॥ ३२१ ॥
 
"
 

 
"विपरीतार्थधीर्यावत् निश्शेषं विनिवर्तते । स्वरूपस्फुरणं यावन्न-

प्रसिध्यत्यनर्गलं । तावत्समाधिषट्केन नयेत्कालं निरंतरं" इत्युक्तत्वात्

प्रतीतं दृश्यं नामरूपप्रविलापनेन केवलाधिष्ठानभूतं ब्रह्म भावयन् स्वयं

च सन्मात्रमानन्दघनं विभावयन् बहिरन्तरं वा समाहितः सन् कालं नयेथाः ।