2023-02-20 14:43:01 by ambuda-bot
This page has not been fully proofread.
१८०
श्रीविवेकचूडामणिः सव्याख्यः
सद्वासनास्फूति-विजृम्भणे
अतिप्रकृष्टाप्यरुण-प्रभायां
सति ह्यसौ विलीना त्वमादिवासना ।
विलीयते साधु यथा तमिस्रा ॥३१९ ॥
ततः
सद्वासनास्फूतिविजृम्भणे सति श्रवणमनननिदिध्यासन-संस्कृतस्य
मनसः सदा सर्वत्र सद्भावनया सत्संस्कारस्फुरणवृद्धौ सत्यां तु असौ
विप्रकृष्टा अहमादिवासना आदिपदेन देहेन्द्रियविषयपरिग्रहः । हि
निश्चयेन विलीना विशेषेण नष्टा भवतीति शेषः ।
तत्र दृष्टान्तः अति-
प्रकृष्टापि तमिस्रा रात्रिः तमोमयी दर्शादिदिनेषु, अरुणप्रभायां अरुणः
सूर्यसारथिः तस्य प्रभायां साधु विलीयते नश्यति यथा तथा इति पूर्वेणान्वयः
॥३१९॥
तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे ।
तथाऽद्वयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःखगंधः ॥ ३२०॥
अरुणोदयानन्तरं दिनेशे भास्करे उदिते सति उदयाचलमारूढे
"तत्र
सति तमः शार्वरं तमः अन्धकारः तत्कार्यं अनर्थजालं चक्षुः पीडा-चोरबाधा-
मार्गस्खलनादिजात-दुःखकदंब न दृश्यते यथा तथा अद्वयानन्दरसानुभूतौ
सद्वासनास्फुरणवृद्धिवशात् सच्चिदानन्दैकरसप्रत्यग्ब्रह्मानुभवे सति नैवास्ति
बंधः अनात्मन्यात्मबुद्धिः नच दुःखगन्धः हेतोरध्यासस्य नाशात् ।
को मोहः कः शोक एकत्वमनुपश्यतः " इतिश्रुतेः ॥ ३२० ॥
यदि प्रारब्धवशात् जगद् भासेत, तदापि
दृश्यं प्रतीतं प्रविलापयन्स्वयं
सन्मात्र- मानन्दघनं विभावयन् ।
समाहितस्सन् बहिरन्तरं वा
कालं नयेथा-स्सति कर्मबन्धे ॥ ३२१ ॥
"
"विपरीतार्थधीर्यावत् निश्शेषं विनिवर्तते । स्वरूपस्फुरणं यावन्न-
प्रसिध्यत्यनर्गलं । तावत्समाधिषट्केन नयेत्कालं निरंतरं इत्युक्तत्वात्
प्रतीतं दृश्यं नामरूपप्रविलापनेन केवलाधिष्ठानभूतं ब्रह्म भावयन् स्वयं
च सन्मात्रमानन्दघनं विभावयन् बहिरन्तरं वा समाहितः सन् कालं नयेथाः ।