2023-02-20 14:43:01 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
सर्वत्र सर्वतः सर्वंब्रह्ममात्रावलोकनम् ।
सद्भाव-वासनादार्ग्यात् तत्त्रयं लयमश्नुते ॥३१७॥
((
"
ताभ्यां चिन्ताक्रियाभ्यां प्रवर्धमाना सा वासना, आत्मन: संसृति
सूते जनयति । पूर्वोक्तरीत्या त्रयाणां च वासना-चिन्ता क्रियारूपाणामपि
क्षयोपाय: सर्वावस्थासु सर्वदा सर्वत्र सर्वतः कालत: देशतः वस्तुतश्च,
जाग्रदाद्यवस्थासु ब्रह्मव्यतिरेकेण किमपि नास्ति " इदं सर्वं यदयमात्मा
ब्रह्मैवेदं विश्वं " इत्यादिश्रुतिभिः " प्रकृतिश्च प्रतिज्ञादृष्टान्तानुप-
रोधात् ' "तदनन्यत्वमारम्भण-शब्दादिभ्यः" इत्यादिसूत्रै: मृल्लोह-
दुंदुभ्यादिदृष्टान्तैश्च यश्चोरः स स्थाणुः यद्रजतं सा शुक्तिः इतिवत्
सर्वत्र सर्वत्वं वाधित्वा केवलाधिष्ठानभूतब्रह्मव्यतिरेकेण किमपि नास्तीति
सर्वब्रह्ममात्रावलोकनं । एवं यदि ज्ञानं तदा " यत्र त्वस्य सर्वमात्मैवाभूत्
तत्केन कं पश्येत् " इतिश्रुत्यनुसारेण " रसोप्यस्य परं दृष्ट्वा निवर्तते
इति स्मृत्या च क्व विषयाः क्वतरां तच्चिन्ता क्वतमां बहिः क्रिया ।
सर्वब्रह्ममात्रावलोकनेन सद्भाव-वासनादा तत्त्रयं वासना-चिन्ता-
क्रियारूपं त्र्यं लयं नाशमश्नुते प्राप्नोति ॥ ३१७॥
ܐܐ
१७९
क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः ।
वासनाप्रक्षयो मोक्षस्सजीवन्मुक्तिरिष्यते ॥३१८ ॥
"}
तथा सर्वं ब्रह्मेत्यवलोकनासामर्थं प्रत्युपायमाह कार्यनिरोधेन कारणं
निरोद्धव्यमिति । क्रियानाश इति ।
पूर्वपूर्वस्य उत्तरोत्तरज्ञापकत्वं वा । वासनां विना चिन्तायाः तां
विना क्रियायाः अभावात् कार्यनाशात् कारणनाशोनुमेय इति भावः ।
तथाच नैष्कर्म्येणावस्थानपर्यन्तं प्रयत्नः पुरुषेण कर्तव्यः । तदा वासनानां
प्रकर्षेण क्षयः सिध्यत्येव सएव मोक्षः स एव जीवन्मुक्तिरिष्यते अभिप्रेयते
ब्रह्मविद्भिरिति शेषः। उक्तं हि " मुक्ति प्राहुस्तदिह मुनयो वासनातानवं
यत् " इति । वस्तुनः सूक्ष्मावस्थैव वासना तस्याः तानवं नाश एव ॥३१८ ॥
सद्भाव-वासनादाढ्य तत्त्रयं लयमश्नुते इत्युक्तमर्थं सदृष्टान्तमाह ।
सद्वासनेति ।