This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
यथा एकोपि स्फुलिंग: सूक्ष्मोपि शुष्कतृणसंयोगाद्वृद्धिधिं प्राप्य महा-

नग्निर्भूत्वा सर्वं वनमेव दहेत्, एवं वासनात्मना स्थितोप्यहंकारः विषयानु-

चिन्तनेन आत्मानं स्वरूपतः प्रच्याव्य स्वयं तत्प्रतिफलनलेन अनेकाकारेण

परिणममानः जातं विवेकमपि न्यक्कुर्वन् विवेकात्प्रावि भ्रान्तिपरंपरां

कामकर्मादीनि च वितन्वन् स्वयं प्रवर्धमानः निवृत्तप्रायमपि संसारं पुनः

प्रवर्तयेत् । अतः अप्रमादेन भवितव्यम् इत्यह वासनावृद्धित इति ।

कार्यं विषयचिन्ता । स्वरूपानन्दविस्मृत्या विषयलाभार्थं प्रयत्नः अलाभे

दुःखं, लाभे हर्षः, हर्षे दर्पः, दर्पे धर्मातिक्रमणं, तेन धियो मालिन्यं, तेन

पुनरात्मग्रहणसामर्थ्याभावः, ततश्च सर्वदा देहाद्यात्मत्वं, तेन जरामरण-

जन्मादिरूप-संसाराविच्छेदः इति पुंसः संसारो न निवर्तत इत्युक्तम्
 
3
 
१७८
 

॥३१४॥
 
तस्मात्
 

 
तस्मात्
 
संसारबन्धविच्छित्यै तवयं प्रदहेद्यतिः ।
 

वासना प्रेर्यते ह्यन्तः चिंतया क्रियया बहिः ॥ ३१५ ॥
 

 
यतिः प्रयत्नशील: पुमान् संसारबन्धविच्छित्यै संसार हेतुभूत-

देहात्मत्वादि-सकल-बंधविनाशाय तद्द्वयं वासनातत्कार्यरूपं द्वयं प्रदहेत्

प्रकर्षेण भस्मीकुर्यात् । यथा भस्मीभूतं बीजं न रोहति तथा कुर्यात् ।

करुणया तद्वृत्तिनिमित्तं तन्नाशोपायं च कथयति वासनेति । वासना

चिंतया बहिः क्रियया च हि यस्मात् अन्तःप्रेर्यते अतः प्रदहेत् । पूर्व

कार्यशब्देन कथितं स्फुटयति चिन्तया मानस्या बहिः क्रियया च इति ।

अन्तरिचश्चिन्ता बहिश्शरीरादिना क्रिया । चित्प्रतिबिंब - -बलाभावे जडस्य

मनसः क्रियाजनक- चिंतासामर्थ्यं नास्ति । तत्र चित्प्रतिफलनं च अहंकार-

द्वारैव । जडस्य शरीरस्य कर्म-करणसामर्थ्यमपि मनआदिद्वारा चिदनु-

प्रवेशादेव । तस्मात् चिन्तया बहिः क्रियया च सूक्ष्मात्मना स्थितः

अहंकारः वृद्धिधिं प्राप्त इति विज्ञेयम् ॥३१५ ॥
 

 
ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।
 

त्रयाणां च क्षयोपायस्सर्वावस्थासु सर्वदा ॥३१६॥